________________
दसमातुला कालिकाचार्यस्तत्रागतः, दत्तस्तं यज्ञफलं पप्रच्छ, स च पशुवातप्रधानानां यत्रानां फल नरक' इत्याह, यतः प्रोक्तं व्यासेन
" ज्ञानपालिपरिक्षिले, ब्रह्मचर्यदयाऽभसि | स्लात्वाऽतिविमले तीर्थ, पापपङ्कापहारिणि ॥ १॥" " ध्यानानौ जीवकुण्डस्थे, दममारतदीपिते । असत्कर्मममिक्षेपैरग्निहोत्रं कुरुत्तमम् ॥ २॥"[युग्मम्] " कषायपशुभिर्दुष्ट-धर्मकामार्थनाशकैः । शममन्त्रहनेयज्ञं, विधेहि विहितं बुधैः ॥ ३ ॥" "प्राणिघातातु यो धर्म-मीहते मूहमानसः । स वाञ्छति सुधाष्टि, कृष्णाहिमुग्वकोटरात् ॥४।" इत्यादि ।
ततः कुपितेन खेनास्मिअर्थ का प्रत्ययः ? इति पृष्टो गुरुः 'सप्तमेति श्वमिस्त्रह तैलकुम्भ्यां तब क्षेप एव प्रत्यय' इत्याह ।। तत्रापि का प्रत्ययः' इति पृष्टस्तस्मिन्नेवालि प्रागेव स्वन्मुखे कृतोऽप्पशुचिप्रवेश इति । ततोऽतिक्रुद्धोऽसौ गुरुमाह-कस्स करे ते । मृतिः, गुरुराव-न कस्यापि, किन्तु सुचिरं चरिष्याम्यद्यापि व्रतमई । ततो गुरुं रोधयित्वाऽतिकुपितो राजा सशको गृहं प्रविश्य | स्थितः । इतवातिदुष्टत्वेन तेनोद्वेजितैः सामन्तैरतीय दृढ़ मन्त्रयित्वा जितशत्रुश्छन्नमानीतः । दत्तस्तु कोपयशात्सप्तममप्यष्टमं दिन मन्यमानोऽश्वारूढो यावद् गृहासन्नं मुनि जिघांसुर्याति, तावदश्वक्षुरोरिक्षमोऽशुचिलवस्तन्मुखे प्रविवेश । ततो नूनं दिनन्तिोऽहमिति । विचिन्त्य भीतो यावदश्वं पश्चाद्वालयति सः, नाचता 'कुतोऽपि मन्त्रो भिन्न' इति मन्यमानास्सर्वे सामन्तास्तं बन्धयित्वा गले च तस्य बहन शुनो बन्धयित्वा तसतैलकम्म्यां चिक्षिपुरधश्वानि ज्वालयन्ति, दयमानाः श्वानो नृपं खण्डशः कुर्वन्ति । एवं वेदनातॊ दत्तो नृपो । मृत्वा नरकाता, सूरिः पुनः सुचिरं विद्वत्य त्रिदिवङ्गतः । इत्ययितथजिनमतपरूपककालिकाचार्यकथानकमिति गाथार्थः॥
अथलौकिकसम्यग्वादसमर्थनार्थमाह