________________
mstripgarigade
देसचरणं गिहीणं, मूलुत्तरगुणविअप्पओ दुबिई । मुले पंच अणुव्वय, उत्तरगुण दिसिक्याईआ ॥११५॥ । | व्याख्या-देशचरणं गृहिणामेव भवेत् , न यतीनां, तेषां सर्वचारित्र एवाधिकारात् । तदपि कतिमेदं ? इत्याह-मूलोत्तरगुणविक
ल्फ्तो-मूलोत्तरगुणभेदाभ्यां तदपि द्विविधं । तत्र मूले-मूलगुणविषये पञ्चाशुव्रतानि, तत्राणूनि-महाव्रतापेक्षया लघूनि व्रतानि अणुवतानि, अणोर्वा गुणापेक्षया यतिभ्यो लधोः श्रावकस्य व्रतान्यव्रतानि, अथवा देशनाकाले महाव्रतप्ररूपणातोऽनु-पश्चात् प्ररूपणीयानि | मतान्यनुव्रतानि, यदाह-"जधम्मस्सासमत्थे,जुनह तदेसणं पिसाहर्ण" इति,पश्च तानि च अणुव्रतानि पञ्चाणुव्रतानि,स्थूलप्रागणातिपातविरमण-स्थूलभूषावादविरमण-स्थूलादत्तादानचिरमण-परदारविरमणखदारसन्तोष-अपरिमितपरिग्रहविरमणलक्षणानि एतानि । 5 श्रावकथर्मतरोमूलकल्पत्वान्मूलगुणाः। दिखतादीनि तु तदुयचयलक्षणगुणहेतुत्वेन श्रावकधर्मद्रुमस्य शाखाकल्पा उत्तरगुणाः, उत्त
रूपा गुणा उत्तरगुणास्ते च दिग्बाताद्याः सप्त । तत्रोधिस्तिर्यदिग्गमनपरिमाणकरणं दिव्रतम् १। तथा नियतपरिमाणोपभोगप-।। रिभोगकरणमुपभोगपरिभोगवतम् । इदं च द्विधा-भोजनतः कर्मतश्चति । तथाऽनर्थदण्डविरमण, तब अर्थ:-प्रयोजन, तदभावोऽनर्थः, - दण्ड्यते आत्माऽनेनेति दण्डः, अनर्थन-प्रयोजनाभावेन निजजीवस्य दण्डोऽनर्थदण्डः, स चतुर्दा, तद्यथा-अपध्यानं प्रमादाचरितं हिंसपदानं पापकर्मोपदेश इति । तस्माद्विरमणं अनर्थदण्डविरमणं । एतानि च दिग्वतादीनि त्रीण्यपि गुणवतान्युच्यन्ते, अणुव्रतानां PI गुणाय-उपकाराय व्रतानि गुणव्रतानीतिकृत्वा, भवति घणुव्रतानां गुगवतेभ्य उपकारो, विवक्षितक्षेत्रादिभ्योऽन्यत्र हिंसादिनिषेधादिति।
अथोत्तरगुणचतुष्टयरूपाणि चत्वारि शिक्षावतानि उच्यन्ते । तत्र शिक्षा-अभ्यासस्तत्प्रधानानि व्रतानि शिक्षाव्रतानि, पुनः पुनरासेवनार्हाणीत्यर्थः । तानि च सामायिकादीनि, तत्र समस्य-रागद्वेषरहितस्य जीवस्य आयो-लामा समायः, समो अनुक्षणमपूर्वज्ञानदर्शनचा