________________
-
-
आग्रह इति यावत् , वृत्तिः-प्राणवर्तनरूपा, कान्तार-अरण्य, बाधेति यावत् , वृत्तः कान्तारं वृत्तिकान्तारं-वृत्चिबाधेत्यर्थः । ननु कथं कान्तारमेव वृत्तेर्याधाभिधीयते ?, उच्यते-तद्धतुत्वात्तस्येत्यदोषः । अत्रायम्भात्रा-प्रत्याख्यातमिथ्यात्वस्य तावत् “नो मे कप्पइ अ
जप्पमिइ अनउथिए(इ वा अनउस्थियदेवयाणि वा अनउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए का नमसित्तए वा पुविं ॐ अणालत्तेग आलवित्तए वा [संलवित्तए वा], तेसिं असणं वा पाणं वा खाइमं वा साइम वा दाउं या अणुप्पयाउं) वा" इत्यादिवचनाद
न्यतीर्घिकादेरनुकम्पा विहाय दानवन्दनादिकमिह प्रतिपद्धं, ततस्तेयामनुकम्पयाऽन्यत्रापि च राजाभियोगादिभिः पड्भिरेतः कारणभक्तिविरहितो द्रव्यतस्तत् समाचरनपि कार्तिकश्रेष्ठयादिवत्सम्यक्त्वं नातिचरति । एवमन्यदप्यत्रोपयोगि स्वयमेव वाच्यमिति ।
"अनन्तसंसारनिदानमेनं. मिथ्यात्वमेवं परिभाव्य भव्याः।
सम्यक्त्वमेकं विमलं अयध्वं, कैवल्यलक्ष्मी स्वरितं लभध्वम् ।। १॥" इति पुष्पमालाविवरणे [चतुर्थे] भावनाद्वारे सम्यक्त्वशुद्धिलक्षणं प्रतिद्वारं समर्थितम् ॥ ६ ॥ सम्प्रति चरणशुद्धिद्वारं विमणिषुः पूर्वद्वारेण सम्बन्धगर्भी गाथामाहचरणरहियं न जायइ,सम्मत्तं मोक्खसाहयं एक । तो जयसु चरणकरणे, जइ इच्छसि मोखमचिरेण ॥११२॥
व्याख्या-चरणरहितमेकमेव सम्यक्त्रं मोक्षसाधकं न जायते, तस्माचरणस्य करण-निर्वतन, प्रतिपालनमित्यर्थः । तत्र यतस्वभयतनं कुरु, यदि मोक्षं अचिरेण स्वल्पकालेनैव इच्छसि । अयम्भावा-प्राप्तेऽपि सम्यक्त्वे चिरकालेनापि तावञ्चारित्रं स्पृष्टैव मोक्षः |