SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ जस्स भत्रे संवेओ, निव्वेंओ उवसमो य अणुकंपा । अत्थितं जीवाइसु, नजइ तस्सऽत्थि सम्मत्तं ॥ ११०॥ व्याख्या - यस्य भवेत् संवेगो निर्वेद उपशमोऽनुकम्पा जीवादिष्वस्तित्वं च तस्य जन्तोरेतैर्लिङ्गज्ञायते यदुत - अस्ति सम्यक्त्वं । तंत्रसुखपरिहारेण मुक्तिकालापीवेयः १ । सांसारिकदुःखेभ्यो निर्विण्णता निर्वेदः २ । अपराधवत्यध्यक्षमावर्जनशमः ३ । अविशेषतो दुःखितसभ्येषु कारुण्यमनुकम्पा ४ । शङ्काकाङ्क्षादिरहितो जिनोदिततच्चाभ्युपगमो जीवास्तित्वमिति गाथार्थः ।। ११० ।। अपराण्यपि सम्यक्त्वगमकानि लिङ्गान्याह सव्वत्थ उचियकरणं, गुणाणुरोओ रई य जिगवणे । अगुणेसु अ मज्झत्थं, सम्मद्दिहिस्स लिंगाई ॥ १११ ॥ व्याख्या - सम्यग्दृटेस्तद्भावगमकान्येतान्यपराण्यपि लिङ्गानि स्युः, कानि ? इत्याह- सर्वत्र देवगुरुमातृ पितृस्वजनादिषुचितकरणं १, तथा ज्ञानादिषु औदार्यगाम्भीर्यमार्गानुयायितादिषु च गुणेष्वनुरागः- प्रीतिः २ तथा रतिथ तस्य जिनवचन एव स्वात् यदाह"यूनो वैदग्ध्यवतः कान्तायुक्तस्य कामिनोऽपि दृढं । किन्नरयादधिकः, सम्यग्दृष्टेः श्रुतौ रागः ॥ १ ॥ २ तथा अगुणेषु च - गुणरहितेषु च प्राणिषु माध्यस्थ्यं उपेक्षैव तस्य भवतीति ४, एतानि सम्यग्टेलिङ्गानीति गाथार्थः ॥ १११ ॥ तदेवमुक्तानि किं सम्यक्त्वमित्यादिद्वाराणि तेषां चोपलक्षणत्वादन्यदप्यत्राकारद्वारं द्रष्टव्यम्, ते चामी आकाराः - राजाभियोग-गणाभियोग-बलाभियोग- देवत्वाभियोग- गुरुनिग्रह - वृत्तिकान्तारलक्षणाः पद् । तत्राभियोजनं-अनिच्छतोऽपि व्यापारणमभियोगः, राज्ञोऽभियोगो राजाभियोगः, एवमग्रेऽपि समासः | गणः - खजनादिसमुदायः, बलं - हरप्रयोगः, देवता कुलदेव्यादिकेति, गुरूणां मातापित्रादीनां निग्रो-निर्बन्धः, +
SR No.090390
Book TitlePushpamalaprakaranam
Original Sutra AuthorHemchandracharya
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy