________________
सम्यक्त्वं, तत्परिचये हि तरिक्रयाश्रवणदर्शनाभ्यां पुनरपि मिथ्यायोधोत्पत्तेः ४ । तथा तेषामेव पाखण्डिनां प्रशंसा-स्तयः, यथा-पुण्यभाज एते सुतपस्विन इति । अनयाऽपि सम्यक्त्वमालिन्यं जन्यते, तत्करणे हि तेषामात्मनोऽन्येषां च मिथ्यात्वस्थिरीकरणपक्षपातमिध्यात्वगमनजिनशासनद्वेषादयो दोषाः प्रभवन्तीति, तत्तपःप्रभृतिगुणानां चाज्ञानकष्टरूपत्वेनानर्थफलत्वात् , अत एते वर्जनीया इति | गाथार्थः ॥ १०७ ।। अतिचाराधिकारादन्यदपि यत्सम्यक्त्वपकं तनिषेधयन्नाइ---
पिंडप्पयाणहुयणं, सोमग्गहणाइलोयकिचाई । वजसु कुलिंगिसंग, लोइयतिस्थेसु गमणं च ॥ १०८ ॥ | व्याख्या-पिण्डप्रदानं पितृणां प्रतीतं, हवन-अग्न्यादौ तिलादिशेयोऽग्निकारिकेत्यर्थः, सोमग्रहणं प्रसिद्धम् , आदिशब्दात् सूर्यग्रहण| सङ्क्रान्तिमाघनवभ्यादेग्रहणं । एतानि लौकिककृत्यानि वर्जय। एतेनान्यान्यपि यानि लोकहाँ प्रवृत्तानि कृत्यानि, तानि नियुक्तिकत्वानिषिद्धत्वानिष्फलत्वेन जीवधातहेतुत्वेन वर्जनीयानीत्यर्थः, तथा कुलिङ्गिमिः शाक्पादिभिः सङ्गं सम्भाषणादिकं, लौकिकतीर्थषु]कायतनेषु गमनं च वर्जयेति सम्बन्ध इति गाथार्थः ॥१०८॥ ननु किमित्येवं पुनः पुनः प्राचुर्यप्रवृत्त कुलिङ्गिसङ्गादिवर्जनं ? इत्याह| मिच्छन्तभाविअचिय, जीवो भवसायरे अणाइम्मि । दढचित्तो वि छलिजइ, तेण इमो नणु कुसंगेहिं ॥१०९॥ ___ व्याख्या---पूर्व तापञ्जीवोऽनादौ संसारसागरे मिथ्यात्वभावित एव भवेत् , तेनायं जीवः सम्यक्त्वे दृढचित्तोऽपि निश्चित कुसङ्गैःसहकारिभिश्छल्यते, मिथ्यात्वं नीयते इति यावत् , स्वभ्यस्तत्यक्तमदिरापानस्तदर्शनाघ्राणश्रवणादिभ्यस्तस्पानामिलापमिवेति गाथा: | १०९ ॥ उक्तमतिचारद्वार, सप्तमे लिङ्गद्वारं विभणिषुराह--
P
mammittee