________________
SEXSEX
यस्तेऽतिचाराः, मिथ्यात्वमोहनीयोदयादात्मनोऽशुभपरिणामविशेषा इत्यर्थः । के ते ? इत्याह-शङ्कनं शङ्का, अर्हतप्रणीतेषु जीवादितवेषु मतिमान्धादनवबुद्धथमानेषु संशयकरणमित्यर्थः, किनिमियमेवालया कामात इति, सा च विचा-जीवो नित्योऽनित्यो वा? इत्यादिदेशविषया देशतः, मूलत एवं जीवोऽस्ति न वा ? इत्यादि सर्वविषया सर्वत इति । द्विधाऽपि चेयं सम्यक्त्वं मलिनयति, सर्वज्ञोक्तेऽपि संशयात् १। तथा काचणं काङ्क्षा-अन्यान्यदर्शनग्रहः, शाक्यादिदर्शनानामपि सर्वज्ञदर्शनतुल्यत्वेन विकल्पनमित्यर्थः, साऽपि देशतः सर्वतश्व, तत्र यदा चित्तनिग्रहादिकं कश्चिद्धर्म सर्वत्रोक्तमन्यदर्शने श्रुत्वा चिन्तयति-यथेदमप्येकं दर्शनं सर्वनदर्शनेन तुल्यमेव, अत्रापि चित्तनिग्रहादेः प्रतिपादनात् , तदा देशतः, यदा त्वक्षपादादिषु बहुषु दर्शनेषु जीवदयादिकं श्रुत्वेत्थं विकल्पयनि-सर्वाणि दर्शनानि सर्वशदर्शनतुल्यानि, जीवदयादेः सर्वत्र तुल्यत्वात् , तदा सर्वतः, इयं च द्विधाऽपि सम्यक्त्वं दूषयति । धुणाक्षरन्यायेन जीवदयादेस्तुल्यत्वेऽपि शेषैः प्रभूतधम्मरन्यदर्शनानामतीव व्यभिचारात्। अथवा ऐहिकामुष्मिकसुखादीन् काङ्गतः काङ्गा, इयमप्यतिचाररूपैत्र, अर्हनिषिद्धाचरणरूपत्वेन मालिन्यहेतुत्वादिति २। विचिकित्सा-मतिविभ्रमः, युक्त्यागमोपपत्रेऽप्यथै फलं प्रति सम्मोहः, किमस्यास्तपःप्रभृतिक्रियाया उत्तरकाले फलसम्पद्धविष्यति न वा ? इति, अथवा विदितयथावस्थितवस्तुत्वाद्विद्वांसः-साधवस्तेषां जुगुप्सा विद्धज्जुगुप्सा, इत्येवमिह व्याख्यायते । एषाऽपि सम्यक्त्वदक्षिकैच । यदा हि मलमलिनान साधूनालोक्य कश्चिदेवं निन्दति-दन्त !! को
त्र दोषः स्थान ?, यदि स्वल्पप्रासुकजलेन शरीरादिप्रक्षालनममी कुर्वीरनिति, तदा दृष्यत एवं सम्यक्त्वं, अहंदुक्तस्याविभूषामार्गस्य | नियुक्तिमत्वविकल्पमात्रेणाप्रमाणीकरणात् ३। तथा पाखण्डिनां नाक्यादीनां संस्तवः-एकत्र निवासादिरूपः परिचयः, न स्तुतिः, तस्या अनन्तरं वक्ष्यमाणत्वात् , सम्पूर्व स्तोतेश्च परिचये रूढत्वात् , यथा---' असंस्तुतेषु प्रसभं कुलेपु" इति । अनेनाप्यतिचरस्येव जीवः.