________________
ॐ
देवनारकाच सम्यग्दृष्टयोऽपि मनुष्येष्वेवोत्पद्यन्ते, तेषां देवगतिनिषेधादिति मन्तव्यमिति माथार्थः ।। १०२॥
दृष्टान्ताभिधानद्वारेण तस्यैव गुणान्तरमाहBअचलियसम्मत्ताणं, सुगामि आण शुगंलि भालीए : हरदत्तमज्जा-ए अहव निविकमाईणं ॥१०॥
व्याख्या--दृढसम्यक्त्वानां सुरा अपि भक्त्या आतां कुर्वन्ति, यथा अमरदत्तभार्यायाः, अथवा नृपविक्रमराजादीनामित्यक्षरार्थः, भावार्थकथनार्थ स्वमरदत्तभार्याकथानकं तावदुच्यते___ सुराष्ट्रादेशे कनकरत्नपूर्णायां द्वारिकापुर्या पद्मश्रेष्टिपुत्रोऽमरदत्तो रूपसौभाग्यसम्पन्नः कुशद्वीपे सुवर्णपुरे वाणिज्यार्थ जलाध्वना बहुविभवो गतः । तत्र विशङ्कष्ठिपुत्री श्रीजिनधर्मपरां रूपादिभिरनुत्तरां विमलयशानाम्नीं दृष्ट्वा ययाचे । पित्रोक्तं-ददामि, परं 'यः कोऽपि मां धर्मवादे जयति, स एव मम वर' इति कृतप्रतिज्ञा साऽस्ति । ततो जाते वादे स मिश्यामतिस्तस्याः स्याद्वादवादिन्या
उत्तरं दातुमक्षमश्चिन्तयति-अहो ! सुनिपुणेयं जिनधर्मे गृहस्थ्यपि, ततोऽहमप्येनमेव शिक्षयित्वैनां निरुत्तर करोमीति कपटश्रावको 18 भूत्वा जिनधर्ममभ्यस्यन् ज्ञाततत्यः सद्भावेन श्रारकोऽभूत् । ततः समन्तभद्रसूरिपाचे गृहीतधर्म तं दृष्ट्वा विमलयशया हृष्टया प्रोक्तं| भो ! तवैव धर्मविचारेऽद्याप्यस्तीच्छा ?, अत्रान्तरे श्रेष्ठयपि तत्रैवागतः, ततोऽमरदत्तेनोक्तं-'भद्रे ! शुद्धाकरप्रभवे वजे या पुनर्विचारणा अभिनिविष्टयुद्धिभिः क्रियते, सा तेषां जडत्वमेव साधयति, पूर्वापराविरुद्ध प्रमाणसिद्धे जगत्प्रसिद्ध सर्वत्रभाषिते धर्म विप्रतिपमा ये विचारणां कुर्वन्ति, तेपामसमञ्जसभाषिणां सा दुगतिमेव फलं साधयत्ती ति श्रुत्वा विमलयशया चिन्तित-परिणतधाज्यं शुद्धवचनेलक्ष्यते, अन्यच्च मय्यपि स्तोकानुरागः सम्पन्नोस्त्यसौ, तयदि मामिच्छति, मत्पिताऽपि यदि कथमपि प्रतिपद्यते, तदैतेन परिणीता एनं
ॐॐॐॐ
the