________________
व्याख्या - विकलानि - असम्पूर्णानीन्द्रियाणि येषां द्वित्रिचतुरिन्द्रियाणां ते तथा अमलस्का:- सम्मूर्छाः पञ्चेन्द्रियाः, एतेषु तथाविधाव्यवसाय शुद्ध्यभावान सम्यक्त्वप्रतिपत्तिसम्भवः, अतस्तिर्यक्षु एतान् वर्जयित्वा शेषा गर्भजपञ्चेन्द्रियाः प्रतिपद्यमानका अपि भवन्ति । उभयस्यापि पूर्वप्रतिपन्नप्रतिपद्यमानकलक्षणस्यै केन्द्रियेषु सम्यक्त्वलब्धेरभावः । यतोऽत्र तथाविधाध्यवसायशुद्धयभावात् सम्यक्त्वस्य प्रतिपद्यमानको न कथञ्चिद्भवति । पूर्वप्रतिपन्नं तु कार्मग्रन्थिका द्वीन्द्रियादिवत्पृथिव्यादिषु साखादनसम्यग्दष्टयुत्पत्तेर्मन्यन्त एव, सैद्धान्तिकास्तु तस्य तत्रानुत्पत्तेः स्वल्पत्वेनाविवक्षणादेर्वा कुतश्चित्कारणात्पूर्वप्रतिपन्नस्थात्राभावं मन्यन्त इत्यत्र मतद्वयं तत्त्वं |तु सर्वविदो विदन्तीति गाथार्थः || १०० || अथ 'गुणाश्व के तस्येति चतुर्थद्वारभिधित्सुः सम्यक्त्वस्य सर्वगुणाधारत्वलक्षणं गुणमाहजह धन्नाणं पुहई, आहारो नहयलं व ताराणं । तह नोसेसगुणाणं, आहारो होइ सम्मतं ॥ १०१ ॥
व्याख्या -- उत्पत्तिवृद्धिस्थित्यपेक्षया यथा सर्वधान्यानां पृथिवी आधारः नभस्तले वा ताराणां आधारः, तथा निःशेषगुणानां शमसंवेगनिर्वेदादीनां आधारः सम्यक्त्वं भवतीति गाथार्थः ॥ १०१ ॥ अथ तस्यैव सुगतिगमनहेतुत्वमाह - सम्मदिट्टी जीवो, गच्छइ नियमा विमाणवासीसु । जइ न विगयसम्मत्तो, अहव न बद्धाउओ पुवि ॥१०२॥
व्याख्या—-इह सम्यग्दृष्टिरुत्कृष्टतस्तेनैव भवेन सिद्धयति, योऽपि सम्पूर्णकालादिसामध्यभावान्न निर्वाणं गच्छति, सोऽपि जन्तुनरकतिर्यज्यनुजभवनपतिव्यन्तरज्योतिष्कगती निरुध्य नियमाद्विमानवासिष्वेव सौधर्मादिदेवेषु गच्छति, यदि मरणसमये सर्वथा विगतसम्यक्त्योऽतिचारम लिन सम्यक्त्वो वा, अथवा सम्यक्त्वलाभकालात् पूर्व बद्धायुश्च न भवति, अस्य हि चतसृष्वपि गतियुत्पत्तेः ।