________________
संसार एव ग्रीष्मस्तेन तप्तो गोशीर्षचन्दनरसमिवातिपरमनिवृत्तिकरं - मुक्तिशर्मविधायक, तस्य अनिवृत्तिकरणस्य अन्ते सम्क्लं लभते । यथा ग्रीष्मतप्तः कश्चित्पुण्यवशादतिपरमनिवृत्तिकरं गोशीर्षचन्दनद्रवं लभते एवं जीवोऽपि संसारदुःखोपतप्तः सम्यक्त्वमिति । अय*भावः - अपूर्व करणेन ग्रन्थिभेदं विधाय मिध्यात्वमोहनीय कर्म्मस्थितेरन्तर्मुहूर्त्त मुदयक्षणादुपर्यतिक्रम्यानिवृत्तिकरणरूपेण शुद्धिविशेषेणातत्कालप्रमाणं वैद्य दलिकाभावरूपमन्तरकरणं करोति, स्थापना । अत्र च मिध्यात्वदलिक वेदनाभावादपशमिकसम्यक्त्वं जीवो लभते इति गाथात्रयार्थः ।। ९६-९७-९८ ।। इदानीं 'कस्य तद्भवेदिति तृतीयं स्वामित्वद्वारमाह
पुण्वपडिवन्न पडिवज - माणया निरयमनुवदेव च । तिरिए तु पदस्ता, बेईदियमाइणो होजा ॥ ९९ ॥
व्याख्या - नारकमनुष्यदेवाः पूर्वप्रतिपन्नाः प्रतिपद्यमानकाश्च भवन्ति, तथाहि मनुष्या देवाश्च धर्म्मश्रवणादिभ्यः, नारकाश्च वेदनादेः कर्म्म निर्जरयन्तस्तथाभव्यत्वपरिपाकतः कुतश्चिन्निसर्गादित एवं केचित्सम्यक्त्वं प्रतिपद्यमाना आद्यसमये प्रतिपद्यमानाः द्वितीयादिसमयेषु तु ते पूर्वप्रतिपन्ना एवोच्यन्ते इति । तिर्यक्षु पुनः “पवन्न" ति प्रतिपन्ना द्वीन्द्रियादयो भवेयुः तत्र द्वीन्द्रियत्रीन्द्रि यचतुरिन्द्रियेषु तावद्यः सास्वादनसम्यग्दृष्टिः, स न मृत्वा एतेषूत्पद्यते, सोऽपर्याप्तावस्थायां कियतीमपि वेलां यावत्तद्भावेनावतिष्ठते, ततः परं नियमेन मिध्यात्वं गच्छत्येवासी, ततोऽमुमेवाश्रित्य पूर्वप्रतिपन्ना एषु मन्तव्याः, नान्यथा । पञ्चेन्द्रियेषु तु सामान्यमपि सम्यक्त्वमाश्रित्य पूर्वप्रतिपन्नाः प्राप्यन्त इति गाथार्थः ॥ ९९ ।।
ननु उक्का द्वीन्द्रियादिषु पूर्वप्रतिपन्नाः प्रतिपद्यमानकास्तेषु भवन्ति न वा ? इत्याहपविजमाणया fव हु, विगलिंदिया अमणवजिया हाँति । उभयाभावो एगिं-दिएसु सम्मत्तलडीए ॥१००॥
50.