SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ रोद्धारे होके १२१ द्वारे क्रियास्थानानि बन्धो-रज्ज्यादिभिनियन्त्रणम् , ताडनं-कशादिभिराहननम् , आदिशब्दादन-पाननिषेधादिपरिग्रहः १० ॥८२८-८३०॥ 'एकादशमं क्रियास्थानमाह----'एगारे'त्यादि मार्द्धगाथा, एकादशमं माया-मायाक्रियास्थानम् , यथा हृदये-मनमि अन्यत्-वचःक्रियाविलक्षणम् , वाचि-बचसि अन्यत्-मनःक्रियाविलक्षणम् , अन्यच्च वाङ्मानसविसंवादि आचरति-करोति । कथम्भृतः सन् ?-'गूढसामर्थ्यः' गूढे-गोपने सामर्थ्य-शक्तिविशेषो यस्य स तथा, केन कृत्वा ?-स्वकर्मणा' निजचेष्टितेनाकारङ्गितादिना, मायाप्रत्यया एपा क्रियेति ११ ॥ द्वादशं क्रियास्थानमाह-एत्तो' इत्यादि, इत:-ऊवं पुनर्लोभप्रत्यया क्रिया इयं-वक्ष्यमाणा, यथा सावद्यारम्भाः-प्राण्युपमर्दादिना सपापव्यापारा ये परिग्रहा-धन-धान्यादिरूपास्तेषु महत्सु-गुरुषु सक्तोगाढतराकाङ्क्षायुक्तः । तथा स्त्रीषु-युवतिषु कामेषु च-मनोज्ञरूप-रस गन्ध-स्पर्श-शब्दस्वरूपेषु गृद्धःअत्यन्तमभिसक्तः । तथाऽऽन्मानमपायेभ्यो गाढादरेण रक्षन अन्येषां सच्चाना-प्राणिनां वध-बन्धन-मारणानि-लगुडादिहनन-रज्ज्वादिसंयमन-प्राणव्यपरोपणलक्षणानि करोति एपा इह-सिद्धान्ते लोभप्रत्ययालोभनिवन्धना क्रियेति १२ ॥ त्रयोदशं क्रियास्थानमाह-'इरियावहियमि'त्यादि, अतो लोभक्रियानन्तरमैर्यापथिकी क्रियां प्रवक्ष्यामि । तत्र ईरणमीर्या-गमनं तद्विशिष्टः पन्था ईपिथस्तत्र भवा ऐपिथिकी । व्युत्पत्तिमात्रमिदं प्रवृत्तिनिमित्तं तु यः केवलयोगप्रत्यय उपशान्तमोहादित्रयस्य सातवेदनीयकर्मबन्धः सा 'ऐयापथिकी । १.एकादशं-सि. वि. ॥ २ ईरिया० सि. वि. ।। ८१८८३५ प्र.आ. २३९ जा ॥७॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy