SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके ८१८. तीर्णमेषोऽदत्तवर्ती अदत्तदण्डक्रियावानित्यर्थः ७ ॥८२६॥ । १२१द्वा अयं पुनर्वक्ष्यमाणो भवति आध्यात्मिको दण्डः, अध्यात्म-मनस्तत्र भवो बाह्यनिमित्ता'नपेक्षः क्रियाशोकोऽभिभव इति भावः । तमेवाह -'नवि कोइ' गाहा, यस्य सम्मुखं न कोऽपि किश्चिदप्यनिष्ट स्थानानि जल्पतितथापि हृदयेन-मनसा कृत्वा किञ्चिदतिशयेन दुर्मना:-कालुप्यभाग्भवति तस्याध्यात्मिकी क्रिया गाथा सहति कथ्यते । तस्य चाध्यात्मिकक्रियास्थानस्य इमानि-वक्ष्यमाणानि चत्वारि 'स्थानानि' कारणानि भवन्ति ।।८२७|| तान्येवाह-'कोहो' इत्यादि गाथा पूर्वार्द्धम , क्रोधो मानो माया लोभश्चेत्येतानि चन्चारि कारणा प्र. आ. न्यध्यात्मक्रियायां भवन्तीति ! बाह्यनिमित्तान पेक्षमाभ्यन्तरनिष्कारणक्रोधादिसमुद्भनं दौर्मनग्यमाध्यात्मिकक्रियेति तात्पर्यार्थः । नवमं क्रियास्थानमाह-'जो पुणे' त्यादि, यः पुनजातिमदादिना-जाति-कुल-रूप बल श्रुत-तपोलाभैश्वर्यमदलक्षणेनाष्टविधेन मानेन मत्तः सन् परम्-आत्मव्यतिरिक्तं हीलयति-जात्यादिभिर्निन्दति निकृष्टोऽयमित्यादिवचनैः परिभवत्यनेकाभिः कदर्थनाभिर्मानप्रत्यया एपा क्रियेति ९ .. दशमं क्रियास्थानमाह-'माइपिइ' इत्यादि सपादा गाथा, यः पुनर्माता-पितृस्वजनादीनामल्पेऽप्यपराधे ती दण्डं कुरुते दहना-ऽङ्कन-बन्ध-ताडनादिकं तन्मित्रद्वेषवर्तिक्रियास्थानम् , अमित्रक्रियेत्यर्थः ॥६६॥ मवेदशर्म क्रियास्थानमिति । तत्र दहनम्-उन्मुकादिमिदम्भनम् , अनं-ललाटादिषु चिहकरणम् , नपेक्ष्य-जे. । नापेक्ष्य-सि नापेझ-बि.॥ २ नपेक्ष्य० सि.॥ MAHOUR
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy