________________
१२०द्वारे
सुख
शय्या : गाथा
प्र. आ. २३७
‘पवयण' गाहा, शेरते आस्विस्ति शय्याः, दुःखदाः शय्या दुःखशय्याः । ताश्च द्वेधा-द्रव्यतो भावप्रवचन
| सच, तत्र तोमनोशलामादिरूपा, जावतो दुस्थितचित्ततया दुःश्रमणतास्वभावास्ताश्चतस्रः । तत्र सारोद्धारे
प्रवचनस्य-जिनशासनस्याश्रद्धानम्-एवमेवेदमिति प्रतिपत्त्यभाव इति प्रथमा दुःखशग्या । तथा परेषाम्सटीके
अन्येषां लाभस्य-वस्त्राद्यवाप्तेरीहा-प्रार्थनेति द्वितीया । चः समुच्चये । तथा कामाना-मनोज्ञशब्दरूपादीनामाशंसनम्-अभिलपणमिति तृतीया । तथा स्नानादीना-गात्राम्यङ्ग-मदन-प्रक्षालनादीनां प्रार्थनम्-आका
क्षणमिति चतुर्थी । आसु हि क्लिष्टभावस्वभावासु श्रामण्यशय्यासु स्थितो जीयः कदाचिदपि श्रामण्यस्य न सुखमासादयतीति चतस्रो दुःखशय्याः ॥८१६॥११॥ इदानीं विंशत्युत्तरशततमं 'सुहसेज्जचउक्क' ति द्वारमाह
'सहसेन्जाओऽपि चउरो जहणो धम्माणुरायरसस्स । विवरीयायरणाओ सुहसेज्जाउत्ति भन्नंति ॥८१७॥
'सुहसेज्जाओ' गाहा, "धर्मानुरागरक्तस्य' धर्मे-जिनधर्म अनुरागेण-गाढतराभिलाषरूपेण रक्तस्य-आसक्तस्य दुःखशय्याएव चतस्रोऽपि 'विपरीताचरणात्' पूर्वोक्तप्रवचना श्रद्धानादिवपरीत्यकरणतः सुखशय्या इति भण्यन्ते । अयं भावः प्रवचनश्रद्धानं परलाभानीहनं कामादीनामनाशंसनं स्नानादीनामप्रार्थनं 'चेति यतेः सुखशय्याः । तत्र हि स्थितः परमसन्तोषपीयूषमग्नमानसतया निरन्तरतपोऽनुष्ठानादिक्रियाकलापच्याप्ततया च सुखमेव यतिः समासादयतीति ।।८१७॥१२०॥ १दुह० जे. २॥ २ सुखशय्या एवं-मु.॥३०श्रद्धानादिदुःखशव्यावैप० मु.॥ ४ चेति-मु. नास्ति ।