________________
प्रवचनसारोद्धारे सटीके
| ११६ द्वारे मार्गातीतं गाथा ८१२
||५८॥
'जमणग्गए' गाहा, यदनुद्गते खावतापक्षेत्रे रात्रावित्यर्थः गृहीतमशनादि-अशनं पानं खादिर्भ स्वादिमं च, न तदुपभोक्तु कल्पते गनीनाम् ; यनः क्षेत्रातीतं तदिति समयोक्तिः-सिद्धान्तभणितिरिति ॥८११॥ ११५॥ इदानीं 'मार्गातीत'मिति षोडशोत्तरशततमं द्वारमाह
असणाई कप्पइ कोसचुगम्भंतराउ आणेउं । ।
परओ आणिज्जतं मग्गाईयंति तमकप्पं ॥८१२॥ ___ 'असणाईय' गाहा, अशनादिकं क्रोशद्वयाभ्यन्तराद्-गव्यूतद्वयमध्यादानेतु कल्पते यतीनाम् , परतस्तु-क्रोशद्वयात्परत आनीयमानं तदशनादि मार्गातीतमितिकृत्वाऽकल्पनीय मेवेति ॥८१२॥ ११६॥ इदानीं 'कालातीत' मिति सप्तदशोत्तरशततमं द्वारमाह
पढमप्पहराणीयं असणाइ जईण कप्पए भोत्तुं ।
जाव तिजामे उड्डे तमकप्पं कालइक्कत ॥८१३॥ . 'पढमप्पहरा' गाहा, दिनप्रथमप्रहरानी तमशनादि कल्पते यतीनां भोक्तु यावत् त्रयाणां यामानां समाहारस्त्रियाम-प्रहरत्रयमित्यर्थः । ऊर्च तु-प्रहरत्रयादुपरि चतुर्थप्रहरे तदकल्प्यम्-अकल्पनीयं कालातिक्रान्तम् , सिद्धान्ते निषिद्धमितिकृत्त्वेति ॥१३॥ ११७॥
१०यमिति-सि.वि.॥
११७ द्वारे | कालातीतं गाथा ८१३ प्र.आ. २३६
AMINETIONARASis
t
..
SE060
sion
13
scomwww ManunHAN
DATFPARENARSS