________________
प्रवचन
सारोद्धारे सटीके
॥ ५२ ॥
तामेव भजनामाह - 'जई 'त्यादि यदीत्यभ्युपगमे रात्रेश्चतुरोऽपि प्रहरान् जाग्रति शोभनं चितम् - अनुष्ठानं येष ते सुविहिताः साधव इत्यर्थः, आवश्यकं तु प्राभातिकप्रतिक्रमणं पुनरन्यत्र गत्वा कुर्वन्ति तदा मूलोपाश्रयस्वामी शय्यातरी न भवति, किन्तु सुप्ते वा शयने वा कृते सति कृते वा प्राभातिकप्रतिक्रमणे शय्यातरो भवति ।
अयमत्र तात्पर्यार्थः- शय्यातरगृहे सकलां रात्रिं जागरित्वा प्राभातिकप्रतिक्रमणं यद्यन्यत्र कुर्वन्ति तदा मौलः शय्यातरी न भवति किन्तु यद्गृहे प्रतिक्रमणं कृतं स एव । अथ शय्यातरगृहे रात्रौ सुप्या जागरित्वा वा प्राभातिकप्रतिक्रमणं कुर्वन्ति तदा स एव शय्यातर इति । यदा तु वसतिसङ्कीर्णतादिकारणादनेोपायेषु साधवस्तिष्ठन्ति तदा यत्राचार्यः स्थितः स एव शय्यातरो नान्य इति ॥ ८०३ ||
ननु साधूनां गृहमर्पयित्वा गृहस्वामी यदा देशान्तरं व्रजति तदा शय्यातरो भवति वा न वा १, तत्राह - 'दाऊणे' त्यादि वृत्तम्, कश्चिद् गृहस्थः साधूनां गृहं दवा 'सपुत्र दार:' पुत्र- कलत्रादिसकलनिजलोकपरिवृतो वणिज्यादिभिः कारणैस्तमेव देशमन्यं वा व्रजेत् तत्रापि च स्थितो यदि तस्य गृहस्य स्वामी तदा स एव शय्यातरो भवति । न पुनर्दरदेशान्तरस्थितत्वात्तस्य शय्यातरस्त्वं न भवतीति || ८०४ ।।
अथायं शय्यातरः कस्य सम्बन्धी परिहरणीयस्तत्राह - 'लिंगस्थे' स्यादि, लिङ्गस्थस्यापि - लिङ्गमात्रधारिणोऽपि साधु गुणविरहितस्यापीत्यर्थः सम्बन्धी शय्यातरो वर्जनीयः, आस्तां तावदितरस्य चारित्रिण इति, स च साधुस्तं शय्यातरपिण्डं परिहरतु वा भुङ्क्त वा तथापि वर्ण्यः । अथ साधुगुणैर्वि१०गुणरहित० सि. वि. ॥
११२ द्वारे शय्यातर पिंड :
गाथा
७९७
८०८
प्र. आ. २३४
॥ ५२ ॥