________________
प्रवचनसारोदारे सीके
११२द्वारे शय्यातरपिंडः गाथा ७९७
८०८
अनेके प्रभवोऽनेके च प्रभुसन्दिष्टा इति चतुर्थों भङ्गः । ते च शय्यातरा 'एको वाऽनेके या वर्जनीयाः । अत्रैवापवादमाह-'अणेगेसु य ठावए एग'ति अनेकेषु 'च-बहुषु शय्यातरेषु सत्सु एकं कमप्यपवादपदेन शय्यातरं स्थापयेत् ।
इयमत्र भावना-बहुजनसाधारणा वसतिः क्यापि लब्धा । तत्र च साधुसामाचारीकुशलाः श्रावका यद्येवं वदन्ति-एक कमपि शय्यातरं स्थापयत मा सर्वानपि परिहरतेति, तदा एकं शय्यातरं स्थापयित्वा शेषगृहेषु भिक्षां गृह्णन्ति । यद्वा यहवस्तत्र साधवस्ततो यदि मर्वेऽपि संस्तरन्ति तदा सर्वानपि शय्यातरान् कुर्वन्ति । असंस्तरणे तु एकं शय्यातरमिति । ग्रहणविधिश्वायं-द्वयोः शय्यातरयोरेकान्तरेण 'भिक्षाग्रहणवारको भवति त्रिषु शय्यातरेषु तृतीयदिने चतुषु चतुर्थदिने एवं वारकेण भिक्षां गृणन्तीति ॥८०१॥
अथायं शय्यातरः कदा भवति ?, तबाह --'अन्नत्थे' त्यादि, अन्यत्र-अन्यस्मिन कस्मिश्चित सार्थे ग्रामादौ वा उपित्वा सुप्त्वेत्यर्थः, चरम-प्राभातिकमावश्यक-प्रतिक्रमणमन्यत्र-स्थानान्तरे गत्वा यदि कुर्वन्ति तदा द्वावपि 'तर ति एकदेशेन समुदायोपचारान् शय्यातरौ भवतः, यस्यावग्रहे रात्रौ सुप्तो यदवग्रहे च प्राभातिक प्रतिक्रमणं कृतं तौ द्वावपि शय्यातरौ भवत इति भावः । इदं च प्रायशः सार्थादिषु सम्भवति आदिशब्दाच्च चौरा-वस्कन्दमयादिपरिग्रहः । अन्यथा तु-प्रकारान्तरसद्भावे भजना-शय्यातरस्य विकल्पना, यस्य गृहे स्थिताः स वाऽन्यो वा शय्यातरो भवतीत्यर्थः ॥८०२॥ १ एके-सि. ॥२ च.मु. नास्ति ॥ ३ गत्वा, यदि तु मिक्षा जे०॥
२३४