________________
प्रवचन
सारोद्धारे।
११२ द्वारे सध्यातर
सटीके
॥५३॥
गाथा
युक्तस्य शय्यातरः कस्मात्परिहियते !, उच्यते, साधुगुणैयुक्तस्यायुक्तस्य वा शय्यातरः सर्वथा परिहर्तव्यः । ___अत्र च 'रसापणो' मद्यापणो दृष्टान्तः । तथाहि-महाराष्ट्राख्ये देशे सर्वेष्वपि मद्यहटेषु मा भवतु वा मा वा तथापि तत्परिज्ञापनाथं वजो बध्यते । तं च दृष्ट्वा सर्वेऽपि भिक्षाचरादयोऽभोज्यमितिकृत्वा परिहरन्ति । एवमस वपि साधुगुणयुक्तो वा भवतु अयुक्तो वा, तथाप्यस्य रजोहरणध्वजो दृश्यत इतिकृत्वा शय्यातरः परिट्टियत इति ॥८०५॥
अथ शय्यातरपिण्डग्रहणे दोपानाह-'तन्धकरेत्यादि, तीर्थकरैः सर्वैरपि प्रतिकुष्टो-निषिद्धः शय्यातरपिण्डः । तं च गृह्णता 'तीर्थकराज्ञा न कुना स्यात् । तथा अज्ञातस्य-अविदितस्य राजादिप्रत्रजितत्वेन उञ्छवृत्या यज्ञैक्षं तदज्ञातमुच्यते, तदेव प्रायः साधुना ग्राह्यम् 'अन्नायउञ्छ चरई विसुद्ध' [दशवे. ९/३/४] इति वचनात् । तचासन्ननिवासादतिपरिचयेन ज्ञातस्वरूपतया शय्यातरगृहे पिण्डं गृहणतो न शुद्धयतीति योगः । तथा शय्यातरपिण्डग्रहणे सति 'उद्गम:' कल्पनीयभक्तादिभवनमपि 'न शुद्धयति' न शुद्धो भवति । निकटादिभावेन पुनः पुनस्तत्रैव भैक्षपानकादिनिमित्तं प्रविशत उद्गमदोषाः स्युरित्यर्थः । तथा स्वाध्यायश्रवणादिभ्यः प्रीतः शव्यातरः क्षीरादि स्निग्धद्रव्यं ददाति, तच्च गृहणता विमुक्ति:गार्यामावो न कृतः स्यात् । तथा अविद्यमानं लाघवं-लघुता यस्य स तथा तद्भावोऽलायवता। तत्र विशिष्टाहारलाभेनोपचितत्वाच्छरीरालाघवम् , शय्यातरात्तत्परिजनाच्चोपधेर्लामादुयधेरनल्पतया तदलाघ
प्र. आ. २३५
१ तीर्थकदाझा-सि. वि. ॥ २ गृहणान-मुः ॥ ३ स्निग्ध-वि.॥
॥५३॥