________________
Maina
प्रषचन- मारोद्धारे सटीके
२७६द्वारे | सिद्धगुणाः
गाथा
द्वितीय खण्ड:
प्र.आ.
॥६६॥
इति, एते च प्रत्यासच्या भरतक्षेत्रवर्तिन एवार्या उक्ताः, उपलक्षणत्वाच्चैषामन्येऽपि महाविदेहान्ततिविजयमध्यमखण्डादिवमी बहवो द्रष्टव्या इति ॥८७-९२॥२७॥ इदानीं 'सिद्धगत्तीसगुण' ति षट्सप्तत्यधिकद्विशततमं द्वारमाह
'नव दरिसणंमि ९चत्तारि आउए ४ पंच आइमे अंते ५ । सेसे दो दो भेया ८ वीणभिलावेण इगतीसं ॥९३ । पशिसेहण संठाणे य वन्नगंधरसफासवेर य ।
पण ५ पण ५ दु २ पण ५४८तिहा एगतीसमकाय १ऽसंग २कहा ३ ॥१४॥ दर्शने-दर्शनावरणीये कर्मणि चक्षदर्शनाऽचक्षदर्शना-ऽवधिदर्शन-केवलदर्शनावरण-निद्रा-निद्रानिद्राप्रचला-प्रचलाप्रचला-स्त्यानर्धिलक्षणा नव भेदाः । तथाऽऽयुपि नारकत्तिर्यग्नरामरायुर्लक्षणाश्चत्वारः, तथाऽऽदिमे-ज्ञानावरणीये मति-श्रुता-ऽवधि-मनःपर्यवकेवल ज्ञानावरणस्वरूपाः पञ्च, अन्त्येऽप्यन्तरायाख्ये कर्मणि दान लाभ-भोगोपभोग-वीर्यान्तरायरूपाः पञ्चैव भेदाः । शेषे च कर्मचतुष्के प्रत्येकं द्वौ द्वौ मेदो तत्र वेदनीये माताऽसातात्मको, मोहनीये दर्शनमोहनीय चारित्रमोहनीयलक्षणो, नामकर्मणि शुभनामा-ऽशुभनामको गोत्रे चोच्चैर्गोत्र-नीचैर्गोत्राभिधौ भेदी भवत इति । तदेवमेते सर्वेऽपिभेदाः क्षीणाभिलापेनशीणशब्दविशेषितत्वेन प्रोच्चार्यमाणा एकत्रिंशत्सङ्ख्याः सिद्धानां गुणा भवन्ति । क्षीणचक्षुर्दर्शनावरण. इत्यादिकश्वामिलापः कार्यः ॥ ९३||
१ तुला-भावश्यकहारिमद्री वृत्तिः प.६६ ॥ २झानापरणीय स्वरूपा:-मुः ।।