________________
प्रवचन
सारोद्धारे सटीके
द्वितीय:
क्षणः
||६४९॥
"
सौभाग्यकल्पवृक्षमाह - 'ए' त्यादिगाथाद्वयम् कल्पवृक्ष इव कल्पवृक्षः सौभाग्यफलदाने कन्पवृक्षः सौभाग्यकल्पवृक्षः, तत्र सौभाग्यकल्पवृक्षतपसि चैत्रमासे एकान्तरा एकदिन व्यवहिता उपवासाः समग्रमपि मासं भवन्ति । पारणकं च सर्वरसं सविकृतिकमित्यर्थः । तथाऽत्र यथाशक्ति साध्वादिभ्यो दानं दीयते । अस्य च तपश्चरणस्य समाप्तौ शक्त्यनुसारतो जिनपतेः पुरतः पूजाकरणादिपूर्व विशालस्थालावलमध्ये 'महारजतमयः सरलतण्डुलमयो वा विविधफलपटलविलसदसंख्यशाखाशिखः कल्पशाखी कर्तव्य इति २२ ।। ४८-४९॥
तीर्थंकर मातृतप आह- 'तिरथेत्यादि, तीर्थकरजननीपूजा पूर्वमेकाशनानि - एकभक्तानि सप्तैव तीर्थकरजननीनामके तपसि क्रियन्ते । अस्य च तपसो भाद्रपदे मासि शुक्ल सप्तम्यामारम्भः त्रयोदश्यां च समाप्तिः, वयं च यावदिदं तपः क्रियते २३ ॥ ५० ॥
समवसरणतप आह- 'एक्का' त्यादि, भाद्रपदमासि कृष्णप्रतिपद आरभ्य तत्पूजापूर्वसमवसरण प्रतिमापूजन पुरस्सरं स्वशक्त्यनुसारेणैकाशन निर्विकृतिका चाम्लोपवासैः षोडशभिर्भाद्रपद चतुष्केभाद्रपदेषु प्रत्येकं विहितैः समवसरणतपो भवति । अत्र च चतुर्षु भाद्रपदेषु चतुःषष्टिस्तपोदिनानि स्युः । अयं मावः समवसरणस्यैकैकं द्वारमाश्रित्य प्रत्येकं दिनचतुष्टयं क्रियते, तत एवास्य द्वारिकेति प्रसिद्धिः २४ ॥५१॥
१" कल्पवृक्षस्य सुवर्णतन्दुलादिमयस्य स्थापना व न्यासश्च -" इति पचाशक वृत्तौ १६३३६ ।। २ माद्रपदे मासे सि. ॥
२७१ द्वारे
विविधाः
तपोमेदाः
गाथा
१५०९
७०
प्र. आ. ४४०
||६४९||