________________
प्रवचन
सारोद्धारे
२७१ द्वारे विविधाः तपोमेदाः
सटीके
गाथा
द्वितीयः
१५.९.
१५७.
॥६४८॥
अस्य च तपसः सर्वाङ्गसुन्दरस्वमानुषङ्गिकमेव फलम् , मुख्यं तु सर्वज्ञानया क्रियमाणानां सर्वेषामेव तपसा मोक्षावाप्तिरेव फलमिति भावनीयम् , एवं सर्वत्रापि १८ ॥४४||
निरुजशिखप्तपः प्राह-'एव'मित्यादि, रुजाना-रोगाणाममावो निरुजं तदेव प्रधानफलविवक्षया शिखेव शिखा-चूला यत्रासौ निरुजशिखस्तपोविशेषः सोऽप्येवमेव-सर्वाङ्गसुन्दरतपोवदष्टभिरुपवासराचाम्लपारणकेंद्रष्टव्यः । नवरं-केवलं स-निरुजशिखस्तयोविशेष: श्यामले-कृष्णपक्षे भवति । अधिकश्च तत्र क्रियते ग्लानप्रति जागरणनियमो-ग्लानो मया पथ्यादिदानतः प्रतिचरणीयः इत्येवंरूपप्रतिक्षाग्रहणमित्यर्थः, शेष त जिनपूजादिकं तथैवेति ११॥४५॥
___ परमभूषणतपः प्राह-'सो' इत्यादि, परमाणि-शक चक्रवर्त्याधुचितानि प्रकृष्टानि हारकेयूरकुण्डलादीनि भूपणानि-आभरणानि यस्मादसौ परमभूषणा, तस्मिन् द्वात्रिंशदाचाम्लानि पारणकान्तरितानि शक्तिपदावे निरन्तराणि वा करोनि, तत्समाप्तौ च देवस्य मुकूट-तिलकाद्याभरणवितरण यथाशक्ति यतिदानादिकं च कर्तव्यमिति २० ॥४६॥
आयतिजनकं तपः प्राह-'आई' त्यादि, आयतिम्-आगामिकालेऽभीष्टफलं जनयति-करोति योऽमावायतिजनकस्तपोविशेषः, सोऽप्येवं-परमभूषणतपोयद् द्वात्रिंशताऽऽचाम्लैर्द्रष्टव्यः । नवरं केवलं सर्वासु धर्मक्रियासु-वन्दनक-प्रतिक्रमण स्वाध्याय साधु-साध्वीवैयावृश्यादिषु सर्वधर्मकृत्येष्वनिगृहितबल- वीर्यप्रवृत्तियुक्तैः अगोपायितशरीरमाणचित्तोत्साहप्रवर्तनप्रधानः सः-आयतिजनकः कार्य: २१ ॥४७॥ - बन्दनकप्रतिक्रमणक० सि.।।
प्र. आ. ४४.
४८||
westindi