________________
प्रवचन
सारोद्धारे
सटीके
1183:11
मृदु च भवति, योषिदिवानवरतं 'हत्थोल्लकान् प्रयच्छन् उदरोपरि तिर्यग्व्यवस्थापितवामकरतलस्यो परिष्टादक्षिण करकूर्परं विन्यस्य दक्षिणकरतले च मुखं कृत्वा बाहू च विचिपन् भापते, अभीक्ष्णं च कटिहस्तकं ददाति प्रावरणाभावे स्त्रीवद् बाहुभ्यां हृदयमाच्छादयति, भाषमाणश्च पुनः पुनः सविभ्रमं भूयुग्मक्षिपति, केशबन्धनप्रावरणादिकं च स्त्रीवत्करोति, योषिदाभरणादिपरिधानं व बहुमन्यते, स्नानादिकं समाचरति पुरुषसमाजमध्ये च सभयः शङ्कितस्तिष्ठति, स्त्रीसमाजे तु निःशङ्कः प्रमदाजनोचितं - कण्डन-पेषणादिकं कर्म विदधाति इत्यादिमहिला स्वभावत्वं पण्डकलक्षणम् १ ।
' तथा 'स्वरवर्णभेदः' स्वरः- शब्दो वर्ण- शरीरसम्बन्धी उपलक्षणत्वाद्गन्ध-रस-स्पर्शाथ स्त्री-पुरुषापेक्षया विलक्षणास्तस्य भवन्तीत्यर्थः २-३ |
'मेन्द्र - पुरुषचिनं महद्भवति ४ ।
मृद्वी च वाणी ललनाया इव जायते ५ ।
तथा स्त्रिया व सशब्दं सूत्रं जायते फेनरहितं च तद्भवति ६ ।
एतानि षट् पण्डकलक्षणानि ।
" तथा वातोऽस्यास्तीति वातिकः, यः स्वनिमित्ततोऽन्यथा वा मेहने स्तब्धे सति स्त्री सेवायामकृतायां
१ इत्थोलकान् सि., धर्मसं. वृत्तिश्च । तुलना- निशीथचूर्णिः गा. ३५५६ तः ॥ ॥ २ तस्यावोप० सि. वि. ॥ ३ टी० सि. का इस्तकं इति धर्म सं वृत्तौ पाठः ॥ ४ काण्डन सि. वि. ॥ ५ तुलना-निशीथ चूर्णिः गा. ३५६७ ॥ ६ मेहनं- सु. ॥ ७. तुलना- निशीथ माध्यम् ३ गा. ३५६९ तः ॥
१०९ द्वारे दीक्षा नह
नपुंसका
गाथा
७९३
७९४
प्र.आ.
२३१
॥ ४३ ॥