SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ॥४१॥ परायत्तता कृता भवति सोऽवबद्धः, स एवावद्भकः, सोऽपि न दीक्षाहः कलहादिदोषसम्भवान् १६ | तथा रूप्यकादिमाया या धनिनां गृहे 'दिन पाटिकादिमात्रेण तदादेशकरणाय प्रवृत्तो यः स भृतकः, सोऽपि न दीक्षोचितः । यस्यासौ वृांत गृहयति स दीक्ष्यमाणे तस्मिन् महतीमप्रीतिमादधाति १७ । तथा शैक्षस्य दीक्षितुमिष्टस्य निस्फेटिका - अपहरणं शैक्षनिस्फेटिका, तद्योगाद् यो माता-पित्रादि. भिरमुत्कलितोऽपहृत्य दीक्षितुमिष्यते सोऽपि शैक्षनिस्फेटिका, सोपि न दीक्षोचितः । माता-पित्रादीनां कर्मबन्धसम्भवात् अदत्तादानादिदोषप्रसङ्गाच्च १८ इत्येतेऽष्टादश पुरुषस्य - पुरुषाकारवतो दीक्षानद भेदा इति ॥ ७९१॥१०७॥ इदानीं 'बोस इत्थीसु'ति अष्टोत्तरशततमं द्वारमाह- जे अट्ठारस भैया पुरिसस्स तहित्थियाए ते चैव । गुब्विणी १ सबालबच्छा २ दुन्नि इमे हुति अन्नेवि ॥ ७९२|| 'जे अहारस भेया' गाहा, येऽष्टादश मेदाः पुरुषेष्वदीक्षणा उक्तास्तथा तेनैव प्रकारेण स्त्रियोsपित एव भेदा अष्टादश विज्ञेयाः । अयमर्थः यथा पुरुषाकारवतस्तथा स्त्रीजनाकारवतोऽपि बतायोग्या वालाariserer भेदास्तावन्त एव । " अन्यावपि द्वाविमौ भवतः, यथा गुर्विणी - सगर्भा सह वालेन-स्तनपायिना वत्सेन वर्तते सा सवाल वत्सा । एते सर्वेऽपि विंशतिः स्त्रीभेदा व्रतायोग्याः । दोषा अप्यत्र - पूर्ववद्वाच्याः । ७९२|| १०८॥ १ घन० सि. ॥ २० मिष्यते सोऽपि न मु. ॥ ३ तुलना-धर्मसं वृत्तिः भा. २, प. ५ ॥ १०८ द्वारे दीक्षानहः स्त्रियः गाथा ७९२ प्र. आ. २३१ -॥४१॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy