SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्वारे सटीके द्वितीयः गाथा ॥६१५॥ रागाभाः' पद्मरागः-शोणमणिविशेषस्तद्वदामा-प्रभा येषां ते तथा । अत उत्प्रेक्ष्यन्ते-उपरिस्थिता:-तदुपरि वर्तमाना ये जिनेन्द्राः शाश्वतप्रतिमास्तेषां यत् स्नान-कुकमजलं तत्संपर्फतः पाटला इव । सर्वऽपि चैते रतिकराः प्रकामकोमलस्पर्शाः, तथा सुरपतिसमूहकृतावासाः, दश योजनसहस्राण्युच्छ्रिता, गव्यूतसहस्र नन्दीश्वर 'सार्धयोजनशतद्वयमुद्विद्धाः, उरचत्वसमानविस्तरा दशयोजनसहस्रविस्तीर्णा इत्यर्थः, सर्वतः समा झलरी द्वीपसंस्थानसंस्थिता 'इति । तेष्वपि रतिकरेषु यथोक्तमानानि पूर्वोक्तप्रमाणानि जिनभवनानि ज्ञेयानि स्वरूपम् ॥८४-८६॥ तदेवमुक्ता पूर्वाञ्जनगिरिवक्तव्यता । एतदनुसारेण च शेषदिगञ्जनगिरीणामपि सर्व वाच्यम् , |१४७२नवरं पुष्करिणीनां नामसु विशेषः । तमेवाह--'दाहिणे' त्यादि गाथाचतुष्कम् , दक्षिणस्यां दिशि 'दक्षिणाञ्जने इत्यर्थः पूर्वस्या दिशि भद्रा यापी, दक्षिणस्यां दिशि विशाला, अपरस्यां दिशि कुमुदा, उत्तरस्यां पुण्डरीकिणी । एताश्च सर्वा अपि मणिमयतोरणारामरमणीयाः ॥८॥ प्र. आ. तथा पश्चिमाअनगिरी पूर्वस्यां दिशि नन्दिपेणा वापी, दक्षिणस्याममोधा, अपरस्यां गोस्तूभा, ४२८ उत्तरस्या सुदर्शना तथोत्तराञ्जनगिरी पूर्वस्यां दिशि विजया दक्षिणस्यां वैजयन्ती, अपरस्यां जयन्ती, उत्तरस्यामपराजिता । द्वादशानामप्यमृपा वापीनां प्रमाणादिकं सर्व पूर्वाञ्जनगिरिखापीवद् वक्तव्यम् ।।८८८९॥ सर्वा अपि पोडशाप्यता वाप्यो दधिमुखशैलानां स्थानभूता:-आधारभृता एव । एतासु वापीषु १ सार्ध-सि. ॥ २ इत्यर्थः-जे. ॥ ३ दक्षिणस्याञ्जने-सि. ॥ ४ च वक्तव्य-सि. . -
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy