SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ |२६९द्वा नन्दीश्वर द्वीप गाथा अथाअनशैलादिवक्तव्यतामाह- 'एयन्तो' इत्यादि गाथात्रिकम् , एतस्य नन्दीश्वरस्य द्वीपवचन-1 स्थान्त:-मध्यभागे पूर्वादिषु दिक्षु एकैकस्यां दिशि एकैकभावेन चत्वारः सर्वात्मनाऽजनरत्नमया अञ्ज नगिरयः प्रज्ञप्ताः । तद्यथा-पूर्वस्यां दिशि देवरमणः, दक्षिणस्या नित्योद्योतः, पश्चिमायां स्वयंप्रभः, सटीके । उत्तरस्या रमणीयः । उक्तं च-- ही "पुन्वदिसि देवरमणो निच्चुज्जोओ य दाहिणदिसाए । अवरदिसाए सयंपम रमणिज्जो उत्तरे पासे॥१॥" [नन्दीश्वरप्रकरणसन्दोह गा.५] ... कथंभूतास्ते इत्याह-अञ्जनरत्नाना-कृष्णरत्नविशेषाणां ये श्यामा: करप्रसराः-प्रमापटलानि ते ६११॥ पूरिताः-परिपूर्णता नीता उपान्ताः-पर्यन्तभागा येषां ते तथा। एवंविधानोत्प्रेक्ष्यन्ते-बालतमालवनावलीयुता इव-तरुणतरतमालतरुवनमण्डलीवलयिता इव । तथा घनपटलकलिता इव-प्रावृषेण्यपयोदपक्तियुक्ता इव । धाराधरा हि 'विविधोद्यानहधाः सजलजलदजालमालिनो भवन्तीति ॥७३॥ ...तथा तेषामञ्जनकपर्वतानामेकेकोऽञ्जनका पर्वतः प्रत्येक चतुरशीतियोजनसहस्राणि उच्चा-उच्छ्तिा , एकं योजनसहस्रमवगाढो भूमिप्रविष्टः । तथा तस्यैकैकस्याञ्जनगिरेमले-धरणितले सहस्रदशकं-दश योजनसहस्राणि भवन्ति, विष्कम्भे-विस्तरतः । तदनन्तरं च "मात्रया परिहीयमानस्य तस्य उपरि-पर्यन्तमागे शतदशक-योजनसहस्र' विष्कम्भेन । एवं चैते चत्वारोऽप्यञ्जनगिरयो मूले विस्तीर्णा मध्ये संक्षिप्ता उपरि च तनुकाः संवृत्ताः । तेषु चाञ्जनगिरिपु धनमणिमयानि-नानाविधनिःसपत्नरत्ननिर्मितानि एकैक विविधोयानाथा:-सि. ॥ २ हि मवन्तीति-मु. ॥ ३ मात्रया परिहीयते सस्य उपर्यन्तमागे-सि. ॥ | ११ प्र.आ. ४२७ ॥६११॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy