________________
प्रवचनसारोद्वारे सटीके
२६८ द्वासे अस्वाध्यायस्वरूपम् गाथा १४५०.
द्वितीयः
७१
विदस्वाध्यायः । तथा राजपथे यद्यस्वाध्यायिकविन्दवः पतितास्तदा कल्पते स्वाध्यायः । किं कारणमिति चेदुच्यते, 'यतस्तत्स्वयोगत आगच्छता गच्छतां च मनुष्यतिरश्चा पदनिपातैरेवोत्क्षिप्तं भवति । जिनाज्ञा चात्र प्रमाणमतो न कश्चित् दोषः । अथ पुनस्तदस्वाध्यायिकं तैरश्चं राजपथादन्यत्र षष्टिहस्ताभ्यन्तरे पतितं तदा तस्मिन् व्यूढे वर्षोदकेन उपलक्षणमेतत् दग्धे वा प्रदीपनकेन शुद्धयति स्वाध्यायः ॥६॥ ___गतं तैरश्चमधुना मानुषमाह--'माणुस्से' त्यादि, मानुषमस्वाध्यायिक चतुर्धा-चर्म रुधिर मासम् अस्थि च । एतेष्वस्थि मुक्त्वा शेषेषु सत्सु क्षेत्रतो हस्तशताभ्यन्तरे न कल्पते स्वाध्यायः कालतोऽहोरात्रम् । 'परियावन्नविषन्ने' ति मानुषं तैरश्चं वा यदुधिरं तद्यदि पर्यापनत्वेन-परिणामान्तरापन्नत्वेन स्वभावाद्वर्णाद्विवर्णीभूतं भवति खदिरकल्कसदृशं तदा तदस्वाध्यायिकं न भवतीति क्रियते तस्मिन् पतितेऽपि स्वाध्यायः । 'सेस' त्ति पर्यापनं विवर्ण मक्त्वा शेषमस्वाध्यायिक भवति ।।
तिग' ति यदविरताया मासे २ आतंत्रमस्वाध्यायिकमागच्छति तत्स्वभावतस्त्रीणि दिनानि गलति । ततस्तानि त्रीणि दिनानि यावदस्वाध्याय: । त्रयाणा दिवसाना परतोऽपि कस्याश्चिद्गललि परं न तदातवं भवति किंतु तन्महारक्तं नियमात् पर्यापन्न विवर्ण भक्तीति नास्वाध्यायिकं गण्यते । तथा यदि प्रसूताया दारको जातस्तदा सप्त दिनान्यस्वाध्यायिक अष्टमे दिवसे कर्तव्यः स्वाध्यायः । अथ दारिका जाता तर्हि सा रक्तोत्कटेति तस्यां जातायामष्टौ दिनान्यस्वाध्यायः । नषमे दिने स्वाध्यायः कल्पते ॥६॥ १ यत्तत् स्वयोगत-मु.॥ २ स्वभावाद्वर्णाद्विवर्णीकृतभूत-सि. R ॥ ३ याविरतयामासे मातब० सि. ॥
प्र.आ. ४२६
..
Hawa