________________
|२६९
प्रवचन- सारोद्धारे सटीके
द्वितीयः खण्डः
.. ॥६०७॥
एनमेव गाथावयव च्याचिख्यासुराह-'रत्तु' इत्यादि, निषेककाले यदि रक्तोत्कटता तदा स्त्री इति तस्यां जातायां दिनान्यष्टावस्वाध्यायः । दारकः शुक्राधिकस्ततस्तस्मिन् जाते सप्त दिनान्यस्वाध्यायः । तथा स्त्रीणां त्रयाणां दिनाना परतस्तन्महारक्तमनातवं भवति ततो न गण नीयम् ॥७॥ __अस्थि मुक्त्वेति यत्पूर्वमुक्तं तस्येदानी विधिमाह-दंते' इत्यादि । यत्र हस्तशताभ्यन्तरे दारकादीनां दन्तः पतितो भवति तत्र प्रयत्नतो निमालनीयः । यदि दृश्यते तदा परिष्ट्राध्यः । अथ 'सम्यग्मृग्यमाणैरपि न दृष्टस्तदा शुद्धमिति कल्पते स्वाध्यायः । 'अन्ये' तु अवते-तस्यावहेठनार्थ कायोत्सर्गः करणीयः । दन्तं मुक्त्वा शेषे अङ्गोपाङ्गसम्बन्धिन्यस्थिनि हस्तशताभ्यन्तरे पतिते द्वादश वर्षाणि न कल्पते स्वाध्यायः । अथास्थीन्यग्निना दग्धानि तदा हस्तशताभ्यन्तरे स्थितेष्वपि तेषु नैव क्रियते स्वाध्यायस्यवाचनादेः परिहारः । अनुप्रेक्षा तु न कदाचनापि प्रतिषिद्धयते इति ।।७१॥२६८॥ इदानीं 'नंदीसरदीवडिय' इत्येकोनसप्तत्यधिकद्विशततमं द्वारमाह
विखंभो कोडिसयं तिसडिकोडी उ 'लक्खचुलसीई। नंदीसरो पमाणंगुलेण इय जोयणपमाणो ॥७२॥ एयंतो अंजणरयणसामकरपसरपूरिओवंता ।।
घालतमालवणावलिजुयव्व घणपडलकलियव्य ॥७३॥ ५ सम्यग्मृगयमाणैरपि-सि. RA२ भङ्गोपाङ्गानां-सि. || ३ सक्खनचुलसीई- मु.।।
स्वरूप गाथा १४७ ९१ प्र. अ ४२६
६०