SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ बारोदारे सटीके द्वितीय ध्यायस्वरूपम् गाथा १४५० ॥६ ॥ ततः समन्ततो निभालयन्ति यद् दृष्टं तत्सर्वमपि त्यजन्ति, इतरस्मिस्तु प्रयन्ने कृतेऽप्यदृष्टे अशठा इति कृत्ला शुद्धाः । स्वाध्यायं कुर्वन्ति अपि न प्रायश्चित्तमाज इति मात्रः ॥६१-६२॥ ___ संप्रति 'तदिवसभोइयाई' इत्यत्रोक्तमादिशब्दं व्याख्यानयति-'मयहरे' त्यादि, महत्ताके-- गामप्रधाने प्रकृते-ग्रामाधिकारनियुक्ते बहुपाक्षिके-बहुस्वजने, चकारान् शम्यातरे, अन्यस्मिन् वा प्राकृते मनुध्ये स्ववसत्यपेक्षया मतगृहाभ्यन्तरे मृते तदिवसम्-एकमहोगत्रमस्वाध्यायः । किं कारणमत आहनिदुखा अमी इत्यप्रीत्या गमिमवात् । ततो न पठन्ति, [शनैर्वा पठन्ति] यथा न कोऽपि श्रृणोतीति । महिलारुदितशब्दोऽपि यावत् श्रूयते तावन्न पठन्ति ॥६३॥ गतं व्युद्ग्रह जम् , इदानीं शारीरिकम्यावसरः, 'तच द्विविध-मानुपं तेरश्चं च, नत्र नैरश्चं विधाजलज-मस्यादिनिर्यग्भयम् , एवं गवादीनां स्थलजम् , मयूरादीनां च खजम् । पुनर्जलजादिकं प्रत्येक द्रव्यादिभेदलश्चतुर्विधम् । तानेय द्रव्यादीन चतुरो भेदानाह-'तिरी त्यादि, द्रव्ये-द्रव्यतस्तियंपञ्चेन्द्रियाणां जलजादीनां रुधिरादिद्रव्यमस्याध्यायिकम् , न विकलेन्द्रियाणाम् । क्षेत्र-क्षेत्रतः पष्टिहस्ताभ्यन्तरे परिहरणीयम् , न परतः । अथ नम्थानं तैरश्चेन पौद्गलेन-मांसेन समन्ततः काककुक्कुरादिभिर्विक्षिप्तेनाकीर्ण-व्याप्तं तदा यदि स ग्रामस्तहि तस्मिन् तिसृभिः कुरध्याभिरन्तरिते विकीर्ण पौद्गले स्वाध्यायः क्रियते । अथ नगरं तदा तत्र यस्यां राजा सबलवाहनो गच्छनि देवयानो रथो वा विविधानि या वाहनानि गच्छन्ति तया महत्याऽप्येकया रथ्यया अन्तरिते स्वाध्यायः कार्यः । अथ स ग्रामः समस्तोऽपि विकीर्णेन १ तुला-मावश्यकनियुक्ति दीपिका गा. १३४४ मा. २५. १२. B॥ २ जलमत्स्यापि सि. R|| |प्र. आ. ४२५
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy