________________
वचन
रोद्धारे
टीके
द्वितीय:
उण्ट:
|५९९||
'संसार' ति चतस्रः संध्यास्तिस्रो रात्रौ तद्यथा - प्रस्थिते सूर्ये अर्धरात्रे प्रभाते च चतुर्थी दिनस्य मध्यभागे, एतासु चतसृष्वपि सन्ध्यासु स्वाध्यायो न विधीयते । शेषक्रियाणां तु प्रतिलेखनादीनां तु न प्रतिषेधः | 'पावर' ति प्रतिपदग्रहणेन प्रतिपत्पर्यन्ताश्चत्वारो महामहाः सूचिताः । ततचतुणां महामहानां चतसृषु प्रतिपत्सु तथैव स्वाध्याय एव न क्रियते । न शेषक्रियाणां प्रतिषेधः । 'जं जहिं सुगिम्हए नियम' ति एवमन्योऽपि य उत्सवः पशुवघादिबहुलो यस्मिन् ग्रामनगरादों यावन्तं कालं प्रवर्तते स तत्र तावन्तं कालं वर्जनीयः । सुग्रीष्मकः- चैत्रमासभावी पुनर्महामहः सर्वेषु देशेषु शुक्लपक्षप्रतिपद आरभ्य चैत्र पौर्णमासीप्रतिपत्पर्यन्तो नियमात प्रसिद्ध इति ॥५७॥
के पुनस्ते चत्वारो महामा: १ 'तत्राह - 'आसाडी' त्यादि, आषाढी- आपाढपौर्णमासीमहः, इन्द्र महः - अश्वयुपौर्णमासी, कार्तिकी कार्त्तिकपौर्णमासी, सुग्रीष्मकः - चैत्र पौर्णमासी, खलुशब्दस्यावधारणार्थत्वादेत एव चत्वारो महान्तः सर्वातिशायिनो महा-उत्सवा महामहा बोद्धव्याः । एतेषां च चतुणां महामहान मध्ये यो महामहो यस्मिन् देशे यतो दिवसादारभ्य यावन्तं कालं प्रवर्तते तस्मिन् देशे ततो दिवसादारभ्य तावन्तं कालं न स्वाध्यायं कुर्वन्ति । इह च यद्यपि सर्वेऽपि महामहाः पौर्णमासीपर्यंता एव प्रसिद्धास्तथापि क्षणानुवृतिसंभवेन प्रतिपदोऽप्यवश्यं वर्जनीयाः । अत एवाह-'जाब पारिवह' ति गतार्थम् ||५८ || सम्प्रति जघन्यत उत्कपेतच चन्द्रोपरागं सूर्योपरागं चाधिकृत्य स्वाप्यायविघात कालमाह'कोसेणे' त्यादिगाथाद्वयम् चन्द्र उत्कर्षतो द्वादशपौरुषीं हन्ति, जघन्यतस्त्वष्टौ । कथमिति चेदुच्यते१ सूत्रदाह-सु. ॥ २ चत्कतन्दो० सि. || ३. कालमानमाई मु. ॥
२६८द्व अस्वा
ध्याय
स्वरूपम्
गाथा
१४५०
G
प्र. आ.
४२३
॥५९९॥