________________
प्रवचनसारोद्वारे
सटीके
द्वितीय:
झण्ड:
।।५१८||
अथ दिग्दाहादिव्याख्यानमाह - 'दिसी' त्यादि, दिशि-पूर्वादिकार्या छिन्नमूलो दाहः प्रज्वलनं दिग्दाहः । विमुक्तं भवति ? - अन्यतमस्यां दिशि महानगरं प्रदीप्तमिवोपरि प्रकाशोऽधस्तादन्धकार इति दिग्दाहः । उल्का पृष्ठतः 'सरेखा प्रकाशयुक्ता वा तारकस्येव पातः । ग्रुपको नाम 'शुक्ले - शुक्लपक्षे त्रीणि दिनानि यावद, द्वितीयस्यां तृतीयस्यां चतुर्थ्यां चेत्यर्थः सन्ध्याछेदः - सन्ध्याविभागः सत्रियते येन स "सन्ध्याच्छेदावरणश्चन्द्रः । इयमत्र भावना - शुक्लपक्षे द्वितीया तृतीया चतुर्थीरूपेषु त्रिषु दिनेषु सन्ध्यागतचन्द्र इतिकृत्वा सन्ध्या न विभाव्यते, ततस्तानि शुक्लपक्षे त्रीणि दिनानि यावच्चन्द्रः सन्ध्याच्छेदावरण: स यूपक इति । एतेषु त्रिषु दिनेषु प्रादोषिकं कालं न गृहन्ति, प्रादोषिक व सूत्रपौरुपीं न कुर्वन्ति । सन्ध्याच्छेदाविभावनेन कालवेलापरिज्ञानाभावादिति । न केवलं अमूनि सदेवानि, किंत्वन्यान्यपि ॥ ५६ ॥
तान्येवाट 'बंदी' स्यादि चन्द्रस्य चन्द्रविमानस्योपरागो-राहुविमान तेज सोपरञ्जनं चन्द्रोपरागो ग्रहणमित्यर्थः । एवं सूर्योपरागोऽपि । ततश्चन्द्रोपरागे सूर्योपरागे च ' तद्दिनेऽपगते इति वाक्यशेषः । तथा are for वा नभनि व्यन्तरकृतो महागर्जितसो मध्वनिनिघतिः । गर्जितस्यैव विकारो गुञ्जाबदुगुञ्जमानो महानिञ्जिनम्, तस्मिन्निर्घाते गुञ्जिते च प्रत्येकमहोरात्रं यावत्स्वाध्यायपरिहारः । अयं चात्र विशेष:-यस्यां वेलायां निर्घातो गुञ्जितं वाऽधिकृते दिनेऽभवत् द्वितीयेऽपि दिने यावत्सेव वेला प्राप्ता भवति तावदस्वाध्याय एव । उक्तं च- "निग्धायगुञ्जिएसु विसेसो-बिइयदिणे जाव सा 'वेला अहोरण ण हिजर, जहा अन्नेस "अमझारसु" [ ] इति ।
१ परेषा प्रकाश० सि० ॥ २ शुक्ले मु. नास्ति ।। ३ सन्ध्यावरणचन्द्र:- जे. ॥ ४ एवं सूर्योपरागमहणमित्यर्थः एवं सूर्यो परागोऽपि सिं. ॥। ५ तद्दिनापगते-सि ॥ ६ वेलति व्यहोरतम हिज्ज चि । वेलेवत्ति- ॥ ७ मासु ॥
२६८
अस्वा
ध्याय
स्वरूपर
गाथा
१४५०
७१
प्र. आ ४२३
॥५९८