________________
प्रवचन
सारोद्वारे
सटीके
द्वितीयः
खण्ड:
५९६ ॥
तु व्याचक्षते - त्रयाणां दिनानां परतः । तद्वर्ज पश्चान दिनानां परतः । बलस्पर्शिकारूपे सप्तानी दिनान परतः सर्वमष्कायंस्पृष्टं भवति ॥५१॥
अथ संयमघातिभेदानां सर्वेषामपि चतुर्विधं परिहारमाह- 'दव्वे' इत्यादि, द्रव्ये द्रव्यतस्तदेartarfi महिका सचितरजो वर्ष वा वज्यंते । क्षेत्रे यावति क्षेत्रे महिकादि पतति ताव क्षेत्रम् । कालतो 'जच्चिरं' यावन्तं कालं पतति तावन्तं कालम् । भावे भावतो मुक्त्वा उच्छ्वासमुन्मेषं च । तद्वर्जने जीवितव्यव्याघातसंभवात् । 'शेष स्थानादिकां आदिशब्दाद्गमनागमनप्रतिलेखनादिपरिग्रहः कायिकी चेष्टां भाषां च वर्जयन्ति । इह च न निष्कारणेन कामपि लेशतोऽपि चेष्टां कुर्वन्ति । ग्लानादिकारणे तु समापतिते यतनया हस्तसंज्ञया अक्षिमंज्ञया अड्गुलीसंज्ञया वा व्यवहरन्ति पोतवरिता वा मायन्ते, वर्षाकन्पावृताश्च गच्छन्तीति ॥ ५२॥
मतं संयमोपधात्यस्वाध्यायिकम् इदानीमौत्पातिकमाह - 'पंसू ये'त्यादि, अत्र वृष्टिशब्दः प्रत्येकमभिसम्बध्यते, पांशुवृष्टी मांसवृष्टौ रुधिरवृष्टौ केशवृष्टी शिलावृष्टौ च । तत्र पशुवृष्टिनम यदचित्तं रजोनिपतति । मांसवृष्टिमांसखण्डानि पतन्ति । रुधिरवृष्टिर्यत्र रुधिरविन्दवः पतन्ति | केशवृष्टिर्यदुपरिभागात्केशाः पतन्ति । शिलावृष्टिः - पाषाणनिपतनं 'करकादिशिलावृष्टिर्वेत्यर्थः । तथा रजउद्घाते' रजस्वलासु दिक्षु सूत्रं न पठ्यते । शेषाः सर्वा अपि चेष्टाः क्रियन्ते । तत्र मांसे रुधिरे च पतति एकमहोरात्रं
1
१ बजे- मु.] तद्वपचानां दिनानां अल सि. ४ ॥ २ बज्र्ज्यन्ते मु. B ॥ ३ यच्चिरं-सि ॥ ४. शेषं स्थानादिकं - मु. ॥। ५ करकादि- शिला वर्षमित्यर्थ:-मु. ॥ ६ तेन सि. 8 ॥
२६८ द्वा
अस्वा
ध्वाय
स्वरूपम्
गाथा
१४५०.
७१
प्र. आ.
४२२