________________
सारोद्धार
२६६ देव. प्रवीचा যাথা।
द्वितीयः खण्ड:
४०
प्र.आ.
गेषिज्जणुत्तरेसु अप्पपियारा हवंति सम्धसुरा ।
'सप्पवियारठिईणं अणंतगुणसोक्खसंजुत्ता ॥ ४० ॥ द्वौ कल्पाविति मर्यादायां कल्पशब्देन च तात्स्थ्यात् कल्पस्था देवाः । ततोऽयमर्थः-भवनपत्यादय ईशानान्ता देवाः 'क्लिष्टोदकपु वेदानुभावान्मनुष्यवन्मैथुने निमज्जन्तः सर्वाङ्गीणं कायक्लेश' स्पर्शानन्दमासाद्य तृप्यन्ति नान्यथेति । कायेन-शरीरेण मनुष्यस्त्रीपुसानामिव प्रवीचारो-मैथुनोपसेवनं ययोस्तो कायप्रवीचारौ । तथा स्पर्शेन द्वौ सनत्कुमार-माहेन्द्रौ सप्रवीचारौ । तद्देवा हि मैथुनाभिलापिणो देवीनां स्तनाद्यवयवस्पर्शलीलयैव कायप्रवीचारदेवेभ्योऽनन्तसुखमवाप्नुवन्ति तृप्ताश्च जायन्ते । देवीनामपि देवैः स्पर्श कृते सति दिव्यप्रमावतः शुक्रपुद्गलसंचारेणानन्तगुणं सुखमुत्पद्यते एवमग्रेऽपि भावना कार्या।
तथा द्वौ ब्रह्मलोक-लान्तको रूपदर्शने सप्रवीचारौ । देवीनां दिव्योन्मादजनकरूपावलोकनेनैव तत्र सुराः सुरतसुखजुषो जायन्त इत्यर्थः । तथा द्वौ शुक्र-सहस्रारी देवीशब्दे श्रुते सति सप्रवीचारौ । सुरसुन्दरीणां सविलासगीतहसितभापितभूषणादिध्वनिमाहादकमाकर्ण्य उपांतवेदास्तत्र देवा भवन्तीत्यर्थः । तथा चत्वारः-आनत-प्राणता-ऽऽरणा-ऽच्युताभिधानदेवलोकदेवा मनसा सप्रवीचारा भवन्ति । ते हि यदा प्रवीचारचिकीर्षया देवीश्चित्तस्य गोचरीकुर्वन्ति तदैव तास्तत्संकल्पाज्ञानेऽपि तथाविधस्वभावतः कृताद्भुत. शृङ्गाराः स्वस्थानस्थिता एव उच्चावचानि मनांसि दधाना मनसैव भोगायोपतिष्ठन्ते । तत इत्थमन्योऽन्यं
१ अप० ता. ॥ २ विष्ष्टोत्यपु सि. RD ॥ ३ -स. RDU
॥५८६
MUHSRAM
ImandarishaPRE