SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ सारोद्धारे सटीके २६३६ जीवाजी ल्पबहुत गाथा | १४३२ द्वितीयः खण्ड: देव्यः सङ्ख्येयगुणाः। द्वात्रिंशद्गुणत्वात् । ताभ्योऽपि सिद्धा अनन्तगुणाः । तेभ्योऽपि तिर्यग्योनिका अनन्तगुणाः । अत्र युक्तिः प्रागेवोक्ता ॥३३॥ ___अथ सामान्येनैव जन्तूना कायविशेषणविशेषितानामन्पबहुत्वमाइ-'तसे'त्यादि, सर्वस्तोकास्त्रसकायिकाः, द्वीन्द्रियादीनामेव त्रसकायत्वात् । तेषां च शेषकायापेक्षयाऽत्यल्पत्वात् । तेभ्यस्तैजसकायिका असङ्ख्येयगुणाः, असख्येयलोकाकाश'प्रदेशप्रमाणत्वात् । तेभ्यः पृथिवीकायिकाविशेषाधिकाः, प्रभूतासङ्ख्येयलोकाकाश प्रदेशप्रमाणत्वात् । तेभ्योऽकायिका विशेषाधिकाः, प्रभूततरासङ्ख्येयलोकाकाश प्रदेशप्रमाणत्वात् । तेभ्यो वायुकायिका "विशेषाधिकाः प्रभूततमासङ्ख्येयलोकाकाशप्रदेशमानत्वात् । तेभ्यो. कायिका अनन्तगुणाः, सिद्धानामनन्तत्वात् । तेभ्यो वनस्पतिकायिका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिप्रमाणत्वात् । तेभ्यः सकाया विशेषाधिकाः, पृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ॥३४॥ साम्प्रतमेकेन्द्रियन्वादिविशेषणविशिष्टानां जन्तूनामल्यबहुत्त्रमाह-'पणे'त्यादि, सर्वस्तोकाः पञ्चे. न्द्रियाः, सङ्ख्येययोजनकोटीकोटीप्रमाणविष्कम्भसूचीप्रमितप्रतरासङ्ख्येयभागवर्त्य सङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् । तेभ्यश्चतुरिन्द्रिया विशेषाधिकाः । तेषां विष्कम्भमूच्याः प्रभूतसङ्ख्येययोजनकोटी. कोटीप्रमाणत्वात् । तेम्योऽपि त्रीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भमूच्याः प्रभूततरसंख्येययोजनकोटीकोटीप्रमाणत्वात् । तेभ्योऽपि द्वीन्द्रियाविशेषाधिकाः, तेषां विष्कम्भमूख्याः प्रभूततमसंख्येययोजनकोटीकोटी. १-२-३ प्रदेश सि. RD नास्ति ॥ ४ विशेषिका:-सि. RD ॥ [प्र. आ. ४१८ ॥५८२। मनिट TARAT
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy