SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके अम्या व्याख्या-तेषामष्टानामधो वर्तमाना मनुष्याः परिभवक्षेत्रं भवन्ति । येन तेन वाऽतिशिशुत्वात्परिभूयन्ते, तथा चरणभावोऽपि-चरणपरिणामोऽपि प्राय एतेषां-वर्षाष्टकादधोवर्तमानानां न भवति । यत्पुनः सूत्रम् 'छम्मासियं छसु जयं माऊए समनियं बंदे' [आव. नि.७६४] इत्येवरूयं तत् 'आहउचभावकहगं' कादाचित्कभावकथकम् , ततो वर्षाष्टकादधः परिभवक्षेत्रत्वाच्चरणपरिणामाभावाच्च न दीक्ष्यन्ते इति । अन्यच्च 'बालदीक्षणे संयमविराधनादयो दोषाः । स हि अयोगोलकसमानो यतो यतः स्पन्दते ततस्ततोऽज्ञानित्वात् षड्जीवनिकायवधाय भवति । तथा निरनुकम्पा अमी श्रमणाः यदेवं बालानपि चलाहीझाकारागारे प्रक्षिप्य स्वच्छन्दतामुच्छिदन्तीति जननिन्दा । तत्परिचेष्टायां च मातृजनोचितायो क्रियमाणार्या स्वाध्यायपलिमन्थः स्यादिति १। तथा सप्ततिवर्षेभ्यः परतो वृद्धो मण्यते, 'अपरे त्याहुः-अगिपीन्द्रियादिहानिदर्शना पष्टिवर्षेभ्य उपरि वृद्धोऽभिधीयते । तस्यापि च समाधानादि कर्तुं दुःशकम् , यदुक्तम् - A'उच्चासणं समीहड़ विणयं न करेइ गब्धमुबहइ । वुड्ढो न दिक्खियत्रो जइ जाओ 'वासुदेवेणं ॥१॥" इत्यादि। १०७द्वारे दीक्षानहर्हाः पुरुषाः गाथा ७९.. ७९१ प्र. आ. २२९ J॥३६॥ १ बालदीक्षणायां-मु.। धर्मसं. वृत्तावपि (मा.२।७.४) बालदीक्षण' इति पाठः ॥२ जिननिन्दा जे.॥ ३ अन्ये जे.नि.सि.॥ ४ दुःशक्य-सि.वि.धर्मसं. वृत्तौ च ।। ५ वासुदेवेण-सि. वि.।। Aचासनं समीहते विनयं न करोति गर्वमुद्दति । वृद्धो न दीक्षितव्यो यदि जातो वासुदेवेन ॥१॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy