________________
प्रवचनसारोद्धारे सटिके
२६० दा षड्बृद्धि
हानी
द्वितीयः
गाथा
असङ्ख्यभागाधिकानि पुनरप्येव-पाश्चात्यम्य संयमस्थानस्य सत्काना निर्विभागभागानामसङ्ख्येयलोकाकाशप्रदेशप्रमाणेन राशिना भागे हते सति यद्यलभ्यते 'सोऽसङ्ख्येयतमो भागः । ततस्तेनासव्येयतमेन भागेनाधिकान्यसलयेयभागाधिकानि स्थानानि वेदितव्यानि । सङ्ख्येयभागाधिकानि त्वेवं-पाश्चात्यस्य पात्रात्यस्य संयमस्थानम्योत्कृष्टेन सहळ्येयेन 'भागे हृते सति यद्यल्लभ्यते स सङ्ख्येयतमो भागः । 'ततस्तेन सङ्ग्येयतमेन भागेनाधिकानि स्थानानि वेदितव्यानि ।
सङ्ख्ये यगुणवृद्धानि पुनरेवम्-पाश्चात्यस्य पाश्चात्यस्य संयमस्थानस्य ये ये निर्विभागा भागास्ते ते उत्कृष्टेन 'सङ्ख्येयकमानेन राशिना गुण्यन्ते, गुणिते च सति यावन्तो यावन्तो भवन्ति तावत्तावत्प्रमाणानि सङ्ख्ययगुणाधिकानि स्थानानि द्रष्टव्यानि । एवमसङ्ख्येयगुणवृद्धान्यनन्तगुणवृद्धानि च मावनीयानि । नवरमसख्येयगुणवृद्धौ पाश्चात्यस्य पाश्चात्यस्य संयमस्थानस्य निविभागा भागा असख्येयलोकाकाशप्रदेशप्रमाणेनासङ्ख्येन गुण्यन्ते । अनन्तगुण वृद्धौ तु सर्वजीवप्रमाणे नानन्ते नेति । ___ अयं च षट्रस्थानविचारः स्थापना विना मन्दबुद्धिभिः सम्यगवबोधुन शक्यते, सा च स्थापना कर्मप्रकृतिपटेभ्यः प्रतिपत्तव्या, विस्तरभयात्तु नेह प्रदर्श्यते । केवलं कियन्तमपि स्थानाशून्यार्थ स्थापनाप्रकारं प्रकाशयामः । तथाहि-प्रथमं तावत्तिर्यपङ्क्तौ चत्वारो बिन्दवः स्थाप्यन्ते । तेषां च 'कण्डकमिति संत्रा । सर्वेषामपि चैतेषामन्योऽन्यमनन्तमागद्धया वृद्धिरवसेया । ततस्तेषामग्रतोऽसङ्ख्यातमागवृद्धिसंधक
१स सोऽसहस्येय मि.॥ २ मागेनाइते-सि.।। ३ ततस्तेन तेन समस्येवमागेना. सि.॥ ४ समयेयमानेन सि.॥५नानस्तकेनेवि-सि.॥ ६ कंडकमिति-सि.॥
प्र.
आ.
॥५७१।।