SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ २६. द्वारे प्रवचनसारोद्धारे सटीके वृद्धिहानि गाथा १४१८ द्वितीयः प्र. आ. ॥५६८॥ ॐ "कण्डंति एत्थ भन्नइ अंगुलभागो असंखेज्जो" [ ] तस्माच्च कण्डकात् परतो यदन्यदनंतरं संयमस्थानं तत् पूर्वस्मादसयेयभागाधिकम् । ___ एतदुक्तं भवति-पाश्चात्यकण्डकसत्कचरमसंयमस्थानगतनिर्विभागभागापेक्षया 'कण्डकानन्तरे संयमस्थाने निविभागभागगतप्रदेशा असङ्ख्येयतमेन भागेनाधिकाः प्राप्यन्ते । ततः पराणि पुनर्यान्यन्यानि संयमस्थानानि अङ्गुलमात्रक्षेत्रासङ्ख्येयभागगतप्रदेशराशिप्रमाणानि तानि यथोत्तरमनन्तमागवृद्धान्यकसेयानि । एतानि च समुदितानि द्वितीयं कण्डकम् । तस्य च द्वितीयकण्डकस्योपरि यदन्यत् संयमस्थानं तत्पुनरपि द्वितीयकण्डकसत्कचरमसंयम स्थानगतनिर्विभागभागापेक्षयाऽसङ्ख्येयभागवृद्धम् , ततो भूयोऽपि सतः पराणि कण्डकमात्राणि संयमस्थानानि यथोत्तरमनन्तभागवृद्धानि भवन्ति । ततः पुनरप्येकमसलयेयभागवृद्धं संयमस्थानम् । एमनन्तभागाधिकः कण्डकप्रमाणैः संयमस्थानैर्व्यवहितान्यसङ्ख्येयमागाधिकानि संयमस्थानानि तावद्वाच्यानि यावत्तान्यपि कण्डकमात्राणि भवन्ति । चरमादसङ्ख्येयभागाधिक संघमस्थानात् पराणि यथोत्तरमनन्तभागवृद्धानि कण्डकमात्राणि संयमस्थानानि वाच्यानि । ततः परमेक सङ्ख्येयभागाधिकं संयमस्थानम् , ततो मृलादारभ्य यावन्ति स्थानानि प्रागतिक्रान्तानि तावन्ति भूयोऽपि तेनैव क्रमेणामिधाय पुनरप्येकं सङ्ख्येयभागाधिकं संयमस्थानं वाच्यम् । इदं च द्वितीयं सङ्ख्येयभागाधिक स्थानम् । शकण्कमिति भण्यतेऽगुलभागोऽपारयेयः। १ कण्डकावनन्तरे-सि.।। २०थानागत.सि.।। ५६८॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy