SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्वारे सटीके द्वितीयः षट्स्थानचिन्तायां सर्वजीवानन्तकप्रमाणेन गुणकारेण द्रष्टव्या । इयमत्र भावना-सर्वजघन्यमपि सर्वविरतिविशुद्धिस्थानं केवलिप्रज्ञाच्छेदनकेन विच्छिद्यते । छिचा च निर्विभागा भागाः पृथक क्रियन्ते । ते । निर्विभागा भागाः सर्वसंकलन या विभाव्यमाना यावन्तः सर्वोत्कृष्टदेशविरतिविशुद्धिस्थानगता निर्विभागाः १२६० द्वा भागाः 'सर्वजीवानन्तकरूपेण गुणकारेण गुण्यमाना जायन्ते तावत्प्रमाणाः प्राप्यन्ते । अत्राप्ययं भावार्थः-इह किलासत्कल्पनया सर्वोत्कृष्टस्य देशविरतिविशुद्धिस्थानस्य निर्विभागा वृद्धिहानी भागा दश सहस्राणि १००००, 'सर्वजीवानन्तकप्रमाणश्च राशिः शतम् , ततस्तेन शतसङ्ख्येन सर्वजीवान गाथा स्तकमानेन राशिमा शसहस्रसथाः सर्वोत्कृष्टदेशावरतिविशुद्धिस्थानगता निर्विभागा भागा गुण्यन्ते, जाता १४१८ दश लक्षाः “१००००००, एतावन्तः किल सर्वजघन्यस्यापि सर्वविरतिपिशुद्धिस्थानस्य निर्विभागा भागा भवन्ति । एते च सर्वजघन्यचारित्रसत्कविशुद्धिस्थानगता निर्विभागा भागाः समुदिताः सन्तः सर्वजधन्यं प्र. आ. संयमस्थानं भण्यते । तस्मादनन्तरं यद् द्वीतीयं संयमस्थानं तत् पूर्वस्मादनन्तभागवृद्धम् ।। किमुक्तं भवति ?-प्रथमसंयमस्थानगतनिविभागभागापेक्षया द्वितीयसंयमस्थाने निर्विभागा भागा अनन्ततमेन भागेनाधिका भवन्तीति । तस्मादपि यदनन्तरं तृतीयं तत्ततोऽनन्तभागवृद्धम् , एवं पूर्वस्मात पूर्वस्मादुत्तरोत्तराणि निरन्तरमनन्तभागद्धानि संघमस्थानानि अगुलमात्रक्षेत्रासख्येयभागगतप्रदेशराशिप्रमाणानि वाच्यानि । एतानि च समुदितानि संयमस्थानान्येक कण्डकं भवति, कण्डकं नाम समयपरिभाषया अगुलमात्रक्षेत्रासङ्ग्येयभागगतप्रदेशराशिप्रमाणा सङ्ख्याऽभिधीयते । उक्त चर सजीवानम्तकगुणेन-सि. ॥ २ मुद्रिते-१.... नास्ति । सर्वसाधानन्तक० सि. ॥ ४ मुद्रिते १०००००० नास्ति । . ४१२
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy