SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ नवचनसारोद्धारे सटीके द्वितीय: खण्ड: ॥५६५॥ डाक सूपः ओदनः यवान्नं त्रीणि मांसानि गोरसो ग्रुषः भक्ष्याणि गुडलावणिका मूलफलानि हरितकं तथा भवति रसाला. आर्पत्वाच्च रसालू इति निर्देशः । तथा पानं पानीयं पानकम् अष्टादशश्व शाकः । एषोऽष्टादशविधो निरुपहतो- 'निर्गत उपहतः - दोषो यस्मादसों निरुपहतो - निर्दोष इत्यर्थः । लौकिको निर्विवेक लोकप्रतीतः पिण्डः- आहार इति ||११|| १२ || तत्र सूपो - दालिः, ओदनः- कूरः, यवान्नं यत्रनिषन्नं परमान्नम्, गोरसो- दुग्धदधिघृतप्रभृतिकः । शेषं च सूत्रदेव क्रमेण विवृणोति — 'जसे' त्यादिकं गाथापञ्चकम् जलचरस्थलचरखचरजीव संबन्धीनि त्रीणि मांसानि । तत्र जलचरा - मत्स्यादयः, स्थलचरा - हरिणादयः खचरा-लावकादयः । तथा जूषोजीरककभाण्डादिभिर्युतः सुभृतो मुद्गरसः तथा भक्ष्याणि - खण्डखाद्यकप्रमुखाणि खाद्यकं खज्जकम्, तच्च खण्डेन खरण्टितम्, तत्प्रमुखाणि तथा गुललावणिका गुडपर्यटका, पूर्वदेशीयप्रधानगुडकृता या पर्यटकेत्यर्थः । अथवा गुडमिश्रा धाना गुडवाना मणिता गुललावणिकेति । 'मूलकफल' मिति त्वेकमेव पदं ग्राह्यम् नतु द्वयम्, तत्र मूलानि अश्वगन्धादीनां फलानि सहकारादीनाम् तथा हरितकमिह जीरकादिपत्रनिर्मितम्, तथा 'डाको वस्तुलराजिकादीनां भर्जिका हिगुजीरकादिभिर्युता सुसंस्कृता; सा च रसाला ज्ञेया या "मार्जितेति लोके प्रसिद्धा, तस्याश्चेदं वक्ष्यमाणं स्वरूपम् । " , तदेवाह - 'दो घयपले' स्यादि, द्वे पले घृतस्य एकं पलं मधुनः, अर्धाढको दध्नः, विंशतिर्मरिचानिवर्तितानि दश च पलानि खण्डस्य गुडस्य वा एतैः पदार्थैर्मिलितै रसाला निष्पद्यते, एषा च १ निगमुप सि. ॥ २शाको इति स्थानाङ्गसूत्रवृत्तौ प ११८ ॥ २ तुला- धातुपारायणम् पृ. १७५, पृ. ३५३ ॥ २५९ द्वारे अष्टादशभोज्यानि गाथा १४१११७ प्र. आ. ४११ ||५३५॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy