SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ २५५द्वारे तमस्काय सारोदारे। सटीके द्वितीयः गाथा जम्बूद्वीपादसङ्ख्यं यत्तमो योऽसावरुणासमुद्रस्तमाश्रित्य द्विचत्वारिंशयोजनसहस्राणि जगत्या जलं चिलक्ष्य समश्रेण्या-समभित्तितया एकविंशत्यधिकानि सप्तदश योजनशतानि यावद्वलयाकारस्तमोरूपो देवानामपि तत्रोद्योतामावेन महान्धकारात्मकत्वादप्काय उल्लसितः । अयमर्थः-एतस्माज्जम्बूद्वीपात्तिर्यगसङ्ग्यातद्वीपसमुद्रान व्यतिक्रम्यारुणवरनामा द्वीपः समस्ति । तद्वेदिकापर्यन्ताद् द्विचत्वारिंशद्योजनसहस्राण्यरुणवरं समुद्रमवगाह्मात्रान्तरे जलोपरितनललाध्वमेकविंशत्युत्तराणि सप्तदश योजनशतानि यावन्समभिस्याकारतया गत्वा वलयाकृतिरष्कायमयो महान्धकाररूपस्तमस्कायः समुलसित इति । 'अयं च तिर्यकाविस्तरन सुरालयचतुष्क-सौधर्मेशानसनत्कुमारमाहेन्द्ररूपं देवलोकचतुष्टयमावृण्वन्-आच्छादयन्नूचं तावद्गतो यावत् पञ्चमे ब्रह्मलोकनामके कल्पे तृतीयेऽरिष्ठविमानप्रस्तटे चतसृष्वपि दिक्ष मिलित इति ।।९८.१४००॥ अथ तमस्कायस्य संस्थानमाह- 'हेठे' त्यादि, अधस्ताद्- अधोभागे मल्लकमूलस्थितिस्थितोमल्लक-शरावं तस्य मूलं-बुघ्नं तस्य स्थिति:-संस्थानं तया स्थितो-व्यवस्थितः, शरावचुनाकार इति भावः । उपरिष्टाच ब्रह्मलोकं यावत् 'कुक्कटपञ्जरकाकारसंस्थितः सः-पूर्वोक्तस्वरूपस्तमस्कायो भवति । तमां-तमिस्रपुद्गलानां कायो-राशिस्तमस्काय 'इति ॥१॥ अथास्य समस्कायस्य विष्कम्भं परिधिं च प्राह-'दृविहो' इत्यादिगाथाद्वयम् , द्विविधो-द्विप्रकारः प्र. आ. १ अयं तिर्यक विस्तरन्-सि.॥२ मधोमागेन-सि.॥ ३ कुङ्कटमु.॥ ४ इति स्थापना।।
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy