________________
वचन
रोद्वारे
टोके
तीयः
सद्भावतोऽसंख्येयप्रदेश मप्यसत्कल्पनया सूच्याकारव्यवस्थापितप्रदेशत्रय निष्पन्नं द्रष्टव्यम् स्थापना पेयं ०००, सूची सूच्यैव गुणिता प्रतराङ्गुलम्, इदमपि परमार्थतोऽसंख्येयप्रदेशात्मकम् असद्भावतस्त्वेपैवानन्तरदर्शिता त्रिप्रदेशात्मिका सूचिः तयैव गुण्यते । अतः प्रत्येकं प्रदेशत्रय निष्पमसूचीत्रयात्मकं नवप्रदेशसंख्यं संपद्यते । स्थापना चेयम् - 880,
000
प्रतरथ सूoया गुणितो दैर्घ्यविष्कम्भवान्येषु समसंख्यं घनाङ्गुलं भवति । दैर्ध्यादिषु त्रिष्वपि स्थानेषु समतालक्षणस्यैव समयचर्यया घनस्येह रूढत्वात् । प्रतराङ्गुलं तु दैर्ध्य - विष्कम्भास्यामेव प्रदेशैः समं न पिण्डतः, तस्य तत्रैकप्रदेशमात्रत्वादिति भावः । इदमपि सद्भावतो दैर्ध्य विष्कम्भ बाहल्येषु प्रत्येकअसंख्येय" प्रदेशमा नमसत्प्ररूपणया तु सप्तविंशतिप्रदेशात्मकम् । पूर्वोक्तत्रिपदेशात्मकमुन्याऽनन्तरप्रदर्शिते नवप्रदेशात्मके प्रतरे गुणिते एतावतामेव प्रदेशान भावात् । एषां च स्थापनानन्तरनिर्दिष्टनवप्रदेशात्मकप्रतरस्याध उपरि च नव नव प्रदेशान् दत्त्वा मावनीया, तथा च सत्यायामविष्कम्भपिण्डैस्तुल्यविषयमापद्यत इति ।। ९६ ।।
अथ येनाङ्गुलेन यन्मीयते तदाह- 'आय' मित्यादि, आत्मागुलेन वास्तु मिमी । तच्च वास्तु त्रिधा - खातमुच्छ्रितमुभयं च तत्र खातं रूपभूमिगृहतडागादि, उच्छ्रितं - धवलगृहादि, उभयंभूमिगृहादियुक्तं धवलगृहादि । तथा देहं देवादीनां शरीरमुत्सेधप्रमाणतः- उत्सेधाङ्गुलेन मिमी । १ स्थापना चेयं - सि. वि. ।। २ न -मु. नास्ति ॥ ३ प्रदेश० मु. नास्ति || ४ नम्वरदर्शिवनव० मि. वि. ।।
०
२५४द्वारे
अगुल
स्वरूपं
गाथा
१३८९
. १७
प्र. आ.
४०८
॥५५५॥