SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ २५४ द्वारे अगुल सटीके गाथा (१३८९. बृहत्तरमङ्गुलमस्तीति भावः । यदिवा समस्तलोकव्यवहारराज्यादि स्थितिप्रथमप्रणेतृत्वेन प्रमाणभृतो. प्रवचन । ऽस्मिन्नवसर्पिणीकाले तावद्युगादिदेवो भरतचक्रवर्ती वा तस्य प्रमाणभूतपुरुषस्याङ्गुलं प्रमाणाङ्गुलम् , सारोद्धारे तञ्च भरत चक्रवर्तिन आत्मांगुलम् तदा आन्मामुलस्य प्रमाणामुलस्य च तुल्यत्वात् । ननु यदि भरतचक्रिणः संबन्ध्यङ्गुलं प्रमाणागुलमिन्युच्यते, एवं सत्युत्सेधागुलाप्रमाणामुलं द्वितीयः चतुःशतगुणमेव स्यात् , न सहस्रगुणम् , तथाहि-भरतचक्रवर्ती आत्मीयागुलेन किल विशं शतमगुलाखण्ड: नामनुयोगद्वारघूयादिषु निर्णीतः । उत्सेधाडगुलेन तु पञ्चधनुःशनमानत्वात् प्रतिधनुश्च षण्णवत्यङ्गुलसद्भावादष्टचत्वारिंशत्सहस्राण्यङगुलानाममो संपाते । एवं च सत्येकम्मिन प्रमाणाङ्गुले उत्सेधाङगुलाना चत्वार्यैव शतानि भवन्ति । विंशत्यधिकशतेन प्रमाणाङ्गुलानामष्टचत्वारिंशत्सहस्रसंख्यस्योत्सेधाङ्गुलराशेआंगापहारे एतावत एव लामात् । ततश्वेचं भरतसंबन्ध्याललक्षणं प्रमाणाङ्गुलमुत्सेधाजुलाच्चतु:शतगुणमेव स्थात् न सहस्रगुणमिति , सन्यमुक्तम् , किन्तु प्रमाणामुलस्यार्धतृतीयोत्सेधाङ्गुलरूपं पृथुत्वमस्ति , ततो यदा स्वकीयपृथुत्वेन युक्तं यथावस्थितमेवेदं चिन्त्यते तदोत्सेधागुलात्प्रमाणाङ्गुलं चतुःशतगुणमेव भवति । यदा वर्धततीयोत्सेधाङ्गुललमणेन विष्कम्भेण शतचतुष्टयलक्षणं प्रमाणागुलदैर्ध्य गुण्यते तदोत्सेधाङ्गुलविष्कम्भा सहस्राङ्गुलदीर्घा च प्रमाणाङ्गुलमचिर्जायते ।। इदमुक्तं भवति-अर्धतृतीयोत्सेधाङ्गुलविष्कम्भे प्रमाणाङ्गुले तिनः श्रेणयः कल्प्यन्ते, प्रथमा उत्सेधाङ्गुलेनैकाङ्गुलविष्कम्मा शतचतुष्टयदीर्घा, द्वितीयापि तावन्मानैव, तृतीयापि देईंग पतु: १०स्थितिप्रमाणप्रणेतृत्वेन-सि.॥२ तथा-सि.पि.॥३करूपन्ते-सि.वि.॥ ४०७.
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy