________________
प्रवचन
सारोद्धारे
सटीके
द्वितीय:
खण्ड:
।।५५२ ।।
गुलम्, यद्वा उत्सेधो 'अणंताणं सुहुमपरमाणुपुग्गलाणं समुदयसमिइसमागमेणं एगे ववहारपरमाणू ' [ ] इत्यादिक्रमेणोच्छ्रयो-वृद्धिस्तस्माज्जातमङ्गुलमुत्सेधाङ्गुलम्, यत्पुनरात्माङ्गुलं पूर्वमुद्दिष्टं तदीदृशेनवक्ष्यमाणस्वरूपेण विधिना प्रकारेण भाषितं प्रतिपादितं तीर्थकृद्गणधरैः ॥९३॥
तमेव विधिमाह - 'जे जंभी' त्यादि, 'ये पुरुषा:- चक्रवर्ति वासुदेवादयो यस्मिन् युगे- सुषमदुष्षमादिकाले निजगुलेनैवाष्टोत्तरं शतमङ्गुलानामुच्छ्रिता - उच्चा भवन्ति तेषां च स्वकीयाङ्गुलेनाष्टोत्तरागुलvatsarai पुरुषाणां यनिजम् - आत्मीयमङ्गुलं तत्पुनरात्माङ्गुलं भवति । इह च ये यस्मिन् काले प्रमाणयुक्ताः पुरुषा भवन्ति तेषां संबन्धी आत्मा गृह्यते तत आत्मनोऽङ्गुलमात्माङ्गुलम् ||१४||
इदं च पुरुषront कालादिमेदेनानवस्थित मानत्वादनियतप्रमाणं द्रष्टव्यम् 'जे पुणे' त्यादि, 'ये पुनः पुरुषा एतस्मादष्टोतराङ्गुलशतलक्षणात्प्रमाणान्न्यूनाः समधिका वा तेषां संबन्धि यदगुलमेतदास्माङ्गुलं न गण्यते, किंतु तदाभासमेव आत्मागुलामासमेत्र, परमार्थत आत्माङ्गुलं तत्र भवतीत्यर्थः । लक्षणशास्त्रोक्तस्वरादिशेषलक्षणचैकल्य सहायं च यथोक्तप्रमाणाद्धीनाधिक्यमिह प्रतिषिद्धं न केवलमिति संभाव्यते, भरतचक्रचर्यादीनां स्वाङ्गुलतो विंशत्यधिकाङ्गुलशतमानानामप्यत्र निर्णीतत्वामहावीरादीनां च केषाञ्चिन्मतेन चतुरशीत्याद्यङ्गुलप्रमाणत्वादिति ॥ ९५ ॥
साम्प्रतं क्रमसंप्राप्तं प्रमाणाङ्गुलमाह-- 'उस्सेहंगुले' त्यादि, उत्सेधाङ्गुलम् - अनन्तरोक्तस्वरूपं सहस्रगुणं सदेकं प्रमाणाङ्गुलं भवति, परमप्रकर्षरूपं प्रमाणं प्राप्तमङ्गुलं प्रमाणाङ्गुलम्, नातः परं १. तुला जीव समासवृत्तिः गा. १०३, १. १०१ ॥ २ प्रज्ञापनावृत्तिद्वेष्टव्या ॥ ३ परमं मु.॥
२५४ द्वारे
अङ्गुल
स्त्ररूपं
गाथा
१३८९
९७
प्र. आ.
४०७
॥५५२॥