SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ॥ ३३ ॥ ataaorts विनाशः । तस्मादिवा रात्रौ च पूर्वस्यानुत्तरस्यां च दिवा पृष्ठं वर्जयेत् । तथा याम्यादक्षिणा दिक् तस्य सकाशादानी निशाचराः - पिशाचादयो देवा अभिपतन्ति - उत्तराभिमुखाः समागच्छन्ति । ततस्तस्यां रात्रौ पृष्ठं न दद्यात् । उक्तं च "उभे मूत्रपुरीषे च दिवा कुर्यादुदङ्मुखः । रात्रौ दक्षिणतश्चैव तथा चायुर्न हीयते ॥ १॥" तथा यतः पवनस्ततः पृष्ठदाने अशुभगन्धाघ्राणं नासिकार्या व अशस्युपजायन्ते । चशब्दा लोकोपहाच, यथा आम्रन्त्येतदेते' इति । तस्मात्पवनस्यापि पृष्ठं न कर्तव्यम् । तथा सूर्यस्य ग्रामस्य च पृष्टकरणेऽवर्णो-लोकमध्येऽश्लाघा । यथा न किञ्चिज्जानन्त्येते यल्लोकोद्योतकरस्यापि सूर्यस्य यस्मिन् ग्रामे स्थीयते तस्यापि च पृष्ठं ददति । ततस्तयोरपि न दातव्यं पृष्ठमिति ॥ ७८७॥ 'छाया' इति व्याख्यानार्थमाह-- 'संससे' त्यादि, संसक्ता द्वीन्द्रियै ग्रहणि: - कुक्षिर्यस्यासौ संग्रहणः । स द्वीन्द्रियरक्षणार्थं छायायां पुष्पफलदवृक्षादिसम्बन्धिन्यां निर्गतायां व्युत्सृजति । अथ छायाद्यापि न निर्गच्छति मध्याहने एवं संज्ञाप्रवृत्तेः, ततश्छायाया असति-अभावे उष्णेऽपि स्वशरीरपुरीषस्य कृत्वा व्युत्सृजति । व्युत्सृज्य च मुहूर्तकम् - अल्पं मुहूर्त तथैव तिष्ठति येन एतावता कालेन स्वयोगतस्ते परिणमन्ति । अन्यथोष्णेन महती परितापना स्यात् ||७८८ ॥ १ च पृष्ठ-सु. ॥। २ अशुभगन्धात्राणिः इति बृ. क.मा. वृत्तौ (गा. ४५७) पाठः ।। ३ल्लोकोपघातच जे. सि. वि. वस्तुकवृत्तौ गा. (४२६) च ॥४ अर्धस्येत देते इति बू क.मा. वृत्तौ पाठः, गा-४५६ ॥ ५ तुलना-वृ. क.मा.वृत्तिः ४५७ ॥ ६ ग्रहणी - मलद्वारं इति धर्म वृत्तौ पाठः भा०२ । १.६० ॥ स्वशरीरच्छायायां सि ॥ १०६ द्वारे परिष्ठापनदिग् गाथा ७८३ ७८९ प्र. आ. २२८ ॥ ३३ ॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy