________________
प्रवचन
सारोद्वारे
सटीके
द्वितीय:
स्वच्छ :
॥४४॥
देशविरतो भवेत् । ततवरणोपशमक्षयाणामन्तरा संख्यातानि सागरोपमाणि भवन्ति । इयमत्र भावना - देशविरतिप्राप्त्यनन्तरं संख्यातेषु सागरोपमेषु क्षपितेषु चारित्रमवाप्नोति । ततोऽपि संख्यातेषु सागरोपमेषु क्षपितेषूपशमश्रेणि प्रतिपद्यते । ततोऽपि संख्यातेषु सागरोपमेषु झपितेषु क्षपकश्रेणिर्भवति । ततस्तद्भवे मोक्ष इति । एवमप्रतिपतितसम्यक्त्वस्य देवमनुष्यजन्मसु संसरणं 'कुर्वतोऽन्याऽन्यमनुष्य भवे देशविरत्यादिलाभो भवति । यदिवा तीव्रशुभपरिणामवशात्क्षपितबहुकर्मस्थितेरेकस्मिन्नपि भवेऽन्यतरश्रेणिवर्ज्यान्येतानि सर्वाण्यपि भवन्ति । श्रेणिद्वयं स्वेकस्मिन भने सैद्धान्तिकाभिप्रायेण न भवत्येव । किरवेकैवोपशमश्रेणिः क्षपकश्रेणिर्वा भवतीति । उक्तं च
"एवं अपरिवडिए सम्मते देवमणयजम्मेसु । अन्नयरसेढिवज्जं एगभवेणं पि सच्चाई || १||" इदानीं 'न लहंति माणुसतं सत्ता जेवणंतरुवह' ति पञ्चाशदधिकद्विशततमं द्वारमाहसत्तममहिनेरइया तेऊ वाक अनंतरुव्वा ।
न लर्हति माणुसत्तं तहा असंखाउया सव्वे ॥ ८५ ॥
सप्तमपृथिवी नैरयिकास्ते जस कायिका 'वायुकायिकास्तथा असङ्ख्यातवर्षायुषः सर्वे तिर्यङ्मनुष्याश्चानन्तरमुध्टता मानुष्यं न लभन्ते । मृत्वाऽनन्तरभवे मनुजेषु नोत्पद्यन्ते इत्यर्थः । शेषास्तु सुरनरतिर्यग्नारका नरेवृत्पद्यन्ते ॥ ८५ ॥ २५० ॥
• एवमप्रतिपतिते सम्यक्त्वे देवमनुजजन्मसु मन्यतरश्रेणिवजनि एकमवेनापि सर्वाणि ॥१॥ १ कुर्वतोऽन्योन्य० मु. ॥। २ एमवेणं वसु ॥ ३ वायुकायिकापि स्वथा-सि. ॥
२५० द्वारे
मनुष्यत्वे
अना
गमकाः
गाधा
१३८५
प्र. आ. ४०४
॥५४४॥