________________
प्रवचनसारोद्वारे
सटीके
द्वितीय:
खण्डः
॥५३१॥
'प्रकृत्या - स्वभावेन सौम्यः - अभीषणाकृतिर्विश्वसनीयरूप इत्यर्थः । एवंविधश्च प्रायेण न पायव्यापारे व्याप्रियते सुखाश्रयणीयश्च भवति ३ ।
लोकस्य सर्वजनस्य इहपरलोकविरुद्धवर्जनेन दानशीलादिगुणैश्च प्रियो-वल्लभो लोकप्रियः, सोऽपि सर्वेषां धर्मे बहुमानं जनयति ।
* अक्रूरः- अक्लिष्टाध्यवसायः क्रूरो हि परच्छिद्रान्वेषणलम्पटः कलुषमनाः स्वानुष्ठानं कुर्वन्नपि न फलभाग्भवतीति ५ ।
मोरु:- ऐहिकामुष्मिक पायसनशीलः, स हि कारणेऽपि सति न निःशङ्कमधर्मे प्रवर्तते ६ । अशठ: -अच्छद्मानुष्ठाननिष्ठः, शठो हि वञ्चनप्रपश्वचतुरतया सर्वस्याप्यविश्वसनीयो भवति ७ । सदाक्षिण्यः-स्वकार्यपरिहारेण परकार्यकरणैकरसिकान्तःकरणः, स च कस्य नाम नानुवर्तनीयो भवति १८ ।
'लजालू य' ति प्राकृतशैल्या लज्जावान् स खल्वकृत्या सेवनवार्तयाऽपि 'व्रीड्यति, स्वयमङ्गीकृतमनुष्ठानं च परित्यक्तु ं न शक्नोति ९ ।
दयालुः-- दयावान्, 'दुःखितजन्तुजातत्राणाभिलाषुक इत्यर्थः, 'धर्मस्य हि दया मूल' मिति प्रतीतमेव १० ।
१ तुला- स्वोपज्ञवृत्तियुतं धर्मरत्नप्रकरणम् गा १० ॥ ३ तुला धर्मरत्नप्रकरणंगा. १२ वः ॥ ४ श्रीडते मु. ॥
२ तुला धर्मरत्नप्रकरणं गा. ११ ॥ ५ दुःखितजन्तुत्राणा० सि. वि. ॥
२३९ द्वारे
२१
श्रावक
गुणाः
गाथा
१३५६-८
प्र. आ.
४००
॥५३॥