________________
प्रवचनसारोद्वारे
सटीके
॥३१॥
प्रत्युपेक्षन्ते - आसन्ने मध्ये दूरे च । किं कारणमिति चेत्र मः प्रथमस्थण्डिले कदाचिद्वयावातो "भवेत्, तथाहि क्षेत्रं तत्र केनापि कृष्टम् उदकेन वा तत् प्लावित हरितकायो वा तत्राजनि कीटकादिभिर्वा तत्संसक्तं जातम्, ग्रामो वा तत्र निविष्टः, सार्थो वा कश्चित्तत्रावासित इत्यतो द्वितीये स्थण्डिले परिष्ठापनं विधेयम् तस्याप्येतैरेव हेतुभिर्व्याघाते तृतीये स्थण्डिले परिष्ठापनं कार्यमिति ||७८३ || सम्प्रति प्रथमायां दिशि सत्यां शेषदिक्षु परिष्ठापने दोपमाह - 'पउरे' त्यादिगाथाद्वयम्, 'पउरनपाण पदमा' इत्यत्र प्राकृतत्वात्ससम्या लोपः, ततः प्रथमायाम् - अपरदक्षिणायां परिष्ठापने प्रचुरान-पान वस्त्र पात्रादिलाभतः समाधिरुपजायते, तस्यां सत्यां द्वितीयस्यां दक्षिणायां परिष्ठापने भक्तपाने न लभन्ते । तृतीयस्यां पश्चिमायामुपभ्यादि न लभन्ते । चतुर्थ्यां - दक्षिणपूर्वस्यां नास्ति स्वाध्यायः स्वाध्यायाभाव इत्यर्थः ॥७८४||
}
पञ्चभ्याम् - अपरोत्तरस्यां 'असंखडित्ति कलहः संयत-गृहस्था ऽन्यतीर्थिकादिभिः सह । षष्टयांपूर्वस्य गणस्य गच्छस्य भेदनं भेदं जानीहि । गच्छ भेदो भवतीत्यर्थः । सप्तम्याम्-उत्तरस्यां ग्लानत्वंरोगोत्पत्तिः । अष्टमीति प्राकृतत्वाद्विभक्तिलोपे अष्टम्य-पूर्वोत्तरस्यां दिशि मृतकपरिष्ठापने मरणं पुनवते । अन्यः कश्चित्संयतो म्रियते इत्यर्थः । इह च पानीय स्तेनभयादिव्याघातसद्भावतः पूर्वपूर्वदिगलामे उत्तरोत्तरस्यामपि दिशि मृतकपरिष्ठापने प्रचुरान-पानलाभलक्षण: प्रथमदिक्प्रतिपादित एव गुणोऽ
१ भवति सि. वि. ||
कारण
१०६ द्वारे परिष्ठापन
दिग्
गाथा
७८३
७८९
प्र. आ.
२२८
॥३१॥