________________
वचन
नरोद्धारे
टोके
द्वतीय:
इण्ड:
।५२१।।
अथ पञ्चमदेवकुलिकाया एवागतराशीनाह - 'वये' त्या दिगाथात्रयम्, व्रतसंबन्धिनामेकक संयोगानां पञ्चानां त्रिंशद्भङ्गा भवन्ति । द्विकसंयोगानां दशानामपि त्रीणि शतानि षष्ट्यधिकानि भवन्ति । त्रिकसंयोगानां दशानामेकविंशतिर्भङ्गशतानि षष्ट्यधिकानि-पष्टयधिकशतोत्तरे द्वे सहस्र इत्यर्थः । चतु:संयोगपञ्च पञ्चानां चतुष्कसंयोगानां चतुःषष्टिः शतान्यशीत्युत्तराणि भवन्ति, पञ्चके - पञ्चकसंयोगे पुनः सप्तसप्ततिः शतानि षट्सप्तत्युत्तराणि भङ्गानां भवन्ति ।
इयमत्र भावना - कश्वित्स्थूलप्राणातिपातविरमणादीनि पञ्चाणुत्रतानि प्रतिपद्यते । तत्र किल पञ्चैकसंयोगाः, एकैकस्मिंश्व एकक संयोगे द्विविधत्रिविधादयः षद् षड्भङ्गा भवन्ति । ततः षट् पञ्चभिगुoयन्ते जातास्त्रिशत् । एतावन्तः पञ्चानां व्रतानामेककसंयोगे भङ्गाः, तथा एकैकस्मिन् द्विक्संयोगे पट्त्रिंशत् पत्रिंशङ्खङ्गाः । तथाहि प्राणातिपातयत संबन्धी द्विविधत्रिविधलक्षणः प्रथमो भङ्गकोऽवस्थितो मृषावादसत्कान् षड्भङ्गान् लभते । एवं प्राणातिपातव्रतसंबन्धी द्विविवद्विविधलक्षणो द्वितीयोऽपि मङ्गकोsafस्थितो मृषावादसत्कान् षड्भङ्गान् लभते । एवं प्राणातिपातवतसंबन्धी द्विविधैकविध लक्षणस्तृतीयोऽपि भङ्गः एकवित्रिविधलक्षणचतुर्थोऽपि एकविध द्विविधलक्षणः पञ्चमोऽपि एकविधैकविधलक्षणः षष्ठोऽपि भङ्गकोऽवस्थितः, एवं मृषावादसत्कान् षट् पद्मङ्गान् प्रत्येकं लभते । ततश्च पट् षड्भिर्गुणिताः षटूत्रिंशत् । दश चात्र द्विसंयोगा भवन्तीत्यतः षट्त्रिंशद्दशभिगुण्यन्ते, जातानि त्रीणि शतानि षष्यधिकानि । एतायन्तः पञ्चानां व्रतानां द्विक्संयोगे भङ्गाः ।
१. ०संयोगांनां त्रिंशदुमङ्गानां सि. वि. ॥ २ चतुःपञ्चसंयोगविषि ॥ ३ तथा सि. वि. ॥ ४ षड्मङ्गान् सि. वि. ॥
२३६ द्वारे
श्रावक
व्रतभङ्गा
गाथा
१३२२
४९
प्र. आ.
३९६
।।५२१॥