________________
प्रवचन -
सारोद्वारे
सटीके
द्वितीय:
॥५१५॥
त्रियते, कथं प्रक्षेपः कार्यः १ इत्याह- 'एक्केक्कहाणि 'त्ति एकैकस्योपरितनाङ्कस्य हानिः- वर्जनं यथा भवति तथा क्षेपे २ उपरितनोऽङ्कोऽधस्तनाङ्कक्षेपरहितः कार्य इति भावः । 'अवसानसंख्या हुति संयोग' ति अवसानक्रमेण सर्वाङ्कप्रक्षेपपरिसमाप्तिरूपे ये अङ्काः क्रमशस्तत्सङ्ख्याः- तत्प्रमाणाः संयोगाएकद्विग्यादिपदमीलनरूपा भवन्ति ।
इयमत्र भावना - प्रथममेकादिद्वादशान्ता ऊर्ध्वायता पङ्क्तिः स्थाप्या । तत एकको द्विके क्षिप्यते, जातास्त्रयः । ते च त्रिषु क्षिप्यन्ते जाताः षट् । ते च चतुष्के क्षिप्यन्ते, जाता दश । ते च पश्चके क्षिप्यन्ते, जाता पश्चदश । ते च पटके जाता एकविंशतिः । सा च सप्तके जाता अष्टाविंशतिः । सा चाष्टके जाता पत्रिंशत् सा च नव जाता पञ्चचत्वारिंशत्, साच दशके जाता पञ्चपञ्चाशत् सा च एकादशे क्षिप्यते जाता पट्षष्टिः । एषा च नोपरिस्थे द्वादशके क्षिप्यते, किंतु द्वादशकस्तदवस्थ एव ध्रियते । 'एक्केrकहाणि' ति वचनात् इति प्रथमप्रक्षेपः ।
}
पुनश्चैककत्रि के क्षिप्यते, जातावत्वारः । ते च षट्के क्षिप्यन्ते, जाता दश । ते च दशके जाता विंशतिः । सा च पञ्चदशके जाता पश्चत्रिंशत् । सा चैकविंशतो जाता षट्पञ्चाशत् । सा चाष्टाविंशतौ जाता चतुरशीतिः । सा च 'षत्रिंशति जातं विंशत्युत्तरं शतम् । तच्च पञ्चचत्वारिंशति जातं पञ्चपष्टयधिकं शतम् । तदपि पश्चपञ्चाशति प्रक्षिप्यते, जातं विंशत्युत्तरं शतद्वयम् । एतच्चोपरिस्थितषट्पष्टौ न क्षिप्यते । 'एक्केकहाणि' ति वचनात् इति द्वितीयः क्षेपः ।
3.
१ षडविंशती-मु. ॥ २ निक्षिप्यते-सि. वि० ।।
२३६ द्वार
श्रावक
व्रतभङ्गाः
गाथा
१३२२
४९
प्र. आ. ३९४
।।५१५।।