________________
nan
A
ML
प्रवचन. सारोद्वारे सटीके
স্বাগত वतभा
द्वितीयः
रूपेषु त्रयस्त्रिकाः, त्रयो द्विकाः, त्रय एककाच भवन्ति क्रमेण 'स्थाप्या इति शेषः । तदधस्ताच क्रमेण त्रीणि द्वे एकम् , त्रीणि द्वे एकम् . त्रीणि द्वे एक चैव करणानि-मनोवाक्कायलक्षणानि स्थाप्यानि भवन्तीति पदघटना । भावार्थः पुनरयं-त्रिविधं त्रिविधेनेति प्रथमो भङ्गः, कश्चिद् गृही साययं योगं न करोति न कारयति नान्यं 'समनुजानीते मनसा वचसा कायेन चेत्येको मङ्ग इति भावः । त्रिविधं द्विविधेनेति द्वितीयो मूलभङ्गः । अत्रोसरभङ्गास्त्रयः, तथाहि-न करोति न कारयति नानुजानाति मनसा वाचा १, यद्वा मनसा कायेन २, यद्वा वचसा कायेन ३ ।
त्रिविधमेकविधेनेति तृतीयो भङ्गः। अत्राप्युत्तरभङ्गास्त्रयस्तथाहि-न करोति, न कारयति, नानुजानीते, मनसा १, यद्वा वचसा २, यहा कायेन ३ । द्विविधं त्रिविधेनेति चतुर्थो मङ्गः, अत्राप्युत्तरभङ्गास्त्रयः, तथाहि-न करोति न कारयति मनसा वचसा कायेन १ ! यद्वा न करोति नानुजानीते त्रिभिरपि करणैः २ । यद्वा न कारयति नानुजानाति त्रिभिरपि करणः ३ । द्विविधं द्विविधेनेति पञ्चमो भङ्गः । अत्र चोत्तरभेदा नव । तथाहि-न करोति न कारयति मनसा वचसा १, यद्वा मनसा कायेन २, यद्वा क्चसा कायेन ३, अथवा न करोति नानुजानीते मनसा वचसा ४, यद्वा मनसा कायेन ५, यद्वा वचसा कायेन ६, अथवा न कारयति नानुजानीते मनसा वचसा ७, यद्वा मनसा कायेन ८, यद्वा वचसा कायेन ९ ।
॥५०७॥
प्र.आ
miminaytmya
॥५०॥
१ प्राप्यन्ते-सि. वि. ॥ २ समनुजानाति-सि. वि. भावकत्रतमगावचूरौ च । 'होऽनुपसर्गात" सि. है. ३३९६ द्रष्टव्यम् ॥ ३ त्रिविधेन-सि.पि.॥