SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ बरोद्धारे टीके २३६द्वारे श्रावकव्रतमङ्गः गाथा १३२२. १३४९ जीयः २०४|| द्विविधं द्विविधेनेति द्वितीयो भङ्गः । अत्र चोत्तरभङ्गास्त्रयः, तत्र द्विविधमिति-स्थूल हिंसादिकं न करोति न कारयति, द्विविधेनेति मनसा वचसा १, यद्वा मनसा कायेनेति २, यद्वा वाचा कायेनेति ३ । तत्र यदा मनसा वाचा न करोति न 'कारयति तदा मनसाऽभिसन्धिरहित एव वाचाऽपि हिंसादिकम ब्रुवन्नेव कायेनैव दृश्येष्टितादेना असंज्ञिकवत्करोति । यदा तु मनसा कायेन न करोति न कारयति तदा मनसाऽभिसन्धिरहित एव कायेन दुश्चेष्टितादि परिहरन्नेवानाभोगाद्वाचैव हन्मि घातयामि चेति ब्रूते । यदा तु वाचा कायेन न करोति न 'कारयति तदा मनसैवाभिसन्धिमधिकृत्य करोति कारयति च । अनुमतिस्तु त्रिभिरपि सर्वत्रैवास्ति । एवं शेषविकल्पा अपि भावनीयाः । द्विविधमेकविधेनेति तृतीयः । अत्राप्युत्तरभङ्गास्त्रयः । द्विविधं करणं कारणं च एकविधेन मनसा १, यद्वा वचसा २ यद्वा कायेन ३ । एकविधं त्रिविधेनेति चतुर्थः । अत्र च द्वौ प्रतिभङ्गो, एकविधं करणं मनसा वाचा कायेन च अथवा एकविध कारणं मनसा वाचा कायेन | एकविधं द्विविधेनेति पञ्चमः । अत्र चोत्तरभेदाः पट् , एकविधं करणं द्विविधेन मनसा वाचा १, यद्वा मनसा कायेन २, यद्वा वाचा कायेन ३ । अथवा एकविध कारणं द्विविधेन मनसा वाचा ४, यद्वा मनसा कायेन ५, यद्वा वाचा कायेन ६ । 'एकविधमेकविधेनेति षष्ठो मूलभङ्गः । अत्राप्युत्तरभङ्गाः षट् , एकविध करणम् एकविधेन मनसा १, १ कारयेत्-सि.वि. ॥ २ कायेन यदा-सि. ॥ ३ तदेव एक सि.पि.! प्र. आ. MARATHI
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy