SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ वचनरोद्धारे टीके तीयः २९३॥ प्रायोग्यानि द्रव्याण्युपादाय एकद्वित्रयादीन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः । यया पुनरुच्छ्वा सयोग्यवर्गणादलिकमादाय उच्छ्वासरूपतया परिणमय्यालम्ब्य च मुञ्चति सा प्राणापानपर्याप्तिः । यया तु भाषाप्रायोग्य दलिकमादाय भाषात्वेन परिणमय्यालम्ब्य च मुचति सा भाषापर्याप्ति । यया 'पुनर्मनो योग्यवर्गणादलिमादाय मनस्त्वेन परिणमय्यालम्ब्य च मुञ्चति सा मनःपर्याप्तिः । आह- किं सर्वेषामपि जीवानां सर्वा अध्येताः पर्याप्तयः प्राप्यन्ते ?, नेत्याह 'बत्तारी' त्यादि, इह यथासङ्ख्येन संबन्धः | तद्यथा-आद्याश्चतस्र एकेन्द्रियाणाम् । भाषामनसोस्तेष्वभावात् । विकलशब्देन चात्र मनोविकला गृणन्ते च पायातुरिन्द्रिया असंज्ञिपवेन्द्रियाश्च लभ्यन्ते । तेषामाद्याः पञ्चैव पर्याप्तयो न तु मनःपर्याप्तिः, मनसस्तेष्वभावादिति । संज्ञिपञ्चेन्द्रियाणां पुनः esपि पर्याप्तयः प्राप्यन्ते । मनसोऽपि तेषां सद्भावादिति । एताभिश्च स्वस्वयोग्यपर्याप्तिभिरपर्याप्ता एव ये कालं कुर्वन्ति तेऽप्याद्यपर्याप्तित्रयं समाप्य ततोऽन्तर्मुहूर्तेनायुर्वध्वा तदनन्तरमबाधाकालरूपमन्तमुहूर्त जीवित्यैव व म्रियन्ते इति ॥ १७ ॥ अधासां निष्पत्तिकालमानमाह - 'पढमे' त्यादि, प्रथमा- आहारपर्याप्तिः समयप्रमाणा, शेषा:शरीरपर्यात्यादयः पञ्च पर्याप्तयः क्रमेण प्रत्येकमान्तमौहूर्तिक्यः । इदमुक्तं भवति एताः पर्याप्तयः सर्वा अयुत्पत्तिप्रथमम एव यथास्त्रं युगपज्जन्तुना निष्पादयितुमारभ्यन्ते । क्रमेण च निष्ठामुपयान्ति । तद्यथा - प्रथममाहारपर्याप्तिः, ततः शरीरपर्याप्तिरिन्द्रियपर्याप्तिरित्यादि । आस्वाहारपर्याप्तिश्च प्रथमसमय एवं १ पुनमैनोयोग्य पर्याप्त वर्गणा-सि. वि. ।। २ - जे.सि. वि. ।। ३ सद्भावादु सि.बि. ।।४ क्रमेण. सि. वि. नास्ति ।। २३२ द्वारे पर्याप्तयः षड् गाथा १३१७-८ प्र. आ. ३८६ ॥। ४९३॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy