________________
२३१द्वारे
घाताः गाथा
लोकान्तप्रापिणमारचयति । एवं च लोकस्य प्रायो बहु पूरितं भवति मध्यन्तराणि त्वपूरितानि । जीवप्रवचन- । प्रदेशानामनुश्रेणि गमनात् । चतुर्थसमये तान्यपि मध्यन्तराणि सह लोकनिष्कुरैः पूरयति । तथा च सारोदारे
समस्तोऽपि लोकः पूरितो भवति । तदनन्तरं च पञ्चमे समये यथोक्तप्रक्रमात् प्रतिलोममध्यन्तराणि सटीके
संहरति । प्रसृतान् जीवप्रदेशान् सकर्मकान् मध्यन्तर्गतान् संकोचयतीत्यर्थः । पष्ठे पुनः समये मन्थान
मुपसंहरति, धनतरसंकोचात् । सप्तमे समये कपाटमपि संहरति । दण्डात्मनि संकोचात् । अष्टमे तु द्वितीयः
समये दण्डमपि संहत्य स्वशरीरस्थ एव भवति । तदेवमष्टसामयिकः कैवलिकः समुद्घातः । एतेषु चाष्टस्वपि समयेषु केवली प्रभूतान् वेदनीयनामगोत्रकर्मपुद्गलान् शातयति ।
सम्प्रति समृद्घातगतस्य योगव्यापारश्चिन्त्यते-योगाश्च-मनोवाकायाः, तत्र समुद्घातगतस्य काययोग एव केवलो व्याप्रियते । न मनोवाग्योगो प्रयोजनाभावाद । तत्र प्रथमचरमसमययोरौदारिकाङ्गो भवति । औदारिककायव्यापारप्राधान्यादौदाम्कियोगयुक्त एवेत्यर्थः । सप्तमपष्टद्वितीयेषु औदारिकमिश्रः । समुद्घातमापन्न औदारिक तस्माच्च बहिः कार्यणवीर्यपरिस्पन्दादौदारिककार्यणमिश्रकाययोगयुक्त इत्यर्थः । चतुर्थपञ्चमतृतीयसमयेषु पुनर्बहिरेवौदारिकाबहुतरप्रदेशव्यापारसद्भावात् कार्मणशरीरयोगयुक्त एव, तन्मात्रचेष्टनात् । अत्रैव हेतुमाह-'जं होइ अणाहारो सो संमि तिगेवि समयाणं' ति यद्-यस्मास्कारणात् स तस्मिन् समयत्रिकेऽप्यनाहारको भवति । यश्चानाहारकः स नियमादेव केवलकार्यणशरीरयोगीति ॥१२॥१४॥१५॥१६॥ २३१॥
१ तदेवमष्टसामाविका-सि. वि.॥
प्र. आ.
..
.